________________
आवश्यक
हारिभद्रीयवृत्तिः विभाग:१
॥२४४॥
SACROSSES
पुरुष एव इति, अतः तदतिरिक्तस्य कर्मणः किल सत्ता दुःश्रद्धेया, ते मतिः, तथा प्रत्यक्षानुमानागमगोचरातीतं च एतत् , अमूर्तस्य च आत्मनो मूर्तकर्मणा कथं संयोग ? इति, कथं वा अमूर्तस्य सतः मूर्त्तकर्मकृतावुपघातानुग्रहौ स्यातामिति, लोके तन्त्रान्तरेषु च कर्मसत्ता गीयते 'पुण्यः पुण्येन' इत्यादौ, अतो न विद्मः-किमस्ति नास्ति वा ?, ते अभिप्रायः, तत्र वेदपदानां च अर्थ न जानासि, चशब्दाद्युक्ति हृदयं च, तेषां वेदपदानामेकवाक्यतया व्यवस्थितानामयमर्थः-एतानि हि पुरुषस्तुतिपराणि वर्तन्ते, तथा जात्यादिमदत्यागाय अद्वैतभावनाप्रतिपादकानि वा, न कर्मसत्ताप्रतिषेधकानि, अन्या
र्थानि वा, सौम्य ! इत्थं चैतदङ्गीकर्त्तव्यं, यतः नाकर्मणः कर्तृत्वं युज्यते, प्रवृत्तिनिबन्धनाभावात् , एकान्तशुद्धत्वात् , गगनवत् , इतश्च अकर्मा नारम्भते, एकत्वात् , एकपरमाणुवत्, न च अशरीरवानीशानः खल्वारम्भको युज्यते, तस्य स्वशरीरारम्भेऽपि उक्तदोषानतिवृत्ते, न च अन्यस्तच्छरीरारम्भाय व्याप्रियते, शरीरित्वाशरीरित्वाभ्यां तस्यापि आरम्भकत्वानुपपत्तेः, न च शुद्धस्य देहकरणेच्छा युज्यते, तस्या रागविकल्पत्वात्, तस्मात् कर्मसद्वितीयः पुरुषः कर्ता इति । न च तत्कर्म प्रत्यक्षप्रमाणगोचरातीत, मप्रत्यक्षत्वात् , त्वत्संशयवत् , भवतोऽपि अनुमानगोचरत्वात्, तच्चेदमनुमानम्शरीरान्तरपूर्वकं बालशरीरं, इन्द्रियादिमस्यात् युवशरीरवत्, न च जन्मान्तरातीतशरीरपूर्वकमेवेदं, तस्यापान्तरालगतावभावेन तत्पूर्वकत्वानुपपत्तेः,न चाशरीरिणो नियतगर्भदेशस्थानप्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामककारणाभावात्, न स्वभाव एव नियामको, वस्तुविशेषाकारणतावस्तुधर्मविकल्पानुपपत्तेः, स्वभावो हि वस्तुविशेषो वा स्यादकारणता वा वस्तुधर्मो वा ?, न सावत् वस्तुविशेषः, अप्रमाणकत्वात्, किं च-स मूर्तो वा स्यादमूर्तों वा!, यदि मूर्तः, कर्मणोऽस्य च
॥२४४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org