________________
आवश्यक
हारिभद्रीयवृत्तिः विभागा१
॥२४॥
%
%
अर्धचतुर्थानि २ शतानि अर्द्धचतुर्थशतानि २ मानं ययोः तौ अर्धचतुर्थशतौ भवतः द्वयोः प्रत्येकं गणौ, इह गणः समुदाय एव उच्यते, न पुनरागमिक इति,तथा द्वयोस्तु गणधरयुगलयोः त्रिशतः त्रिशतो भवति गच्छः, एतदुक्तं भवति-उपरितनानां चतुर्णा गणधराणां प्रत्येकं त्रिशतमानः परिवार इति गाथार्थः ॥५९७॥ उक्तमानुषङ्गिक, प्रकृतं उच्यते-ते हि देवाः तं यज्ञ|पाटं परिहृत्य समवसरणभुवि निपतितवन्तः, तांश्च तथा दृष्ट्वा लोकोऽपि तत्रैव ययौ, भगवन्तं तु त्रिदशलोकेन पूज्यमानं दृष्ट्वा अतीव हर्ष चक्रे, प्रवादश्च सञ्जातः-सर्वज्ञोऽत्र समवसृतः, तं देवाः पूजयन्ति इति, अत्रान्तरे खल्वाकर्णितसर्वज्ञप्रवादोऽमाध्मातः खल्विन्द्रभूतिर्भगवन्तं प्रति प्रस्थित इत्याह• सोऊण कीरमाणी महिमं देवेहि जिणवरिंदस्स । अह एइ अहम्माणी अमरिसिओ इंदभूइत्ति ॥५९८ ॥ | व्याख्या-श्रुत्वा च क्रियमाणां, दृष्ट्वा वा पाठान्तरं, महिमां देवैर्जिनवरेन्द्रस्य, अथास्मिन प्रस्तावे 'एई' त्ति आगच्छति भगवत्समीपम् 'अहम्माणि' त्ति अहमेव विद्वान् इति मानोऽस्य इति अंहंमानी, 'अमर्षितः' अमर्षयुक्तः, अमर्षो-मत्सरविशेषः, मयि सति कोऽन्यः सर्वज्ञः ? इति, अपनयामि अद्य सर्वज्ञवादम्, इत्यादिसङ्कल्पकलुषितान्तरात्मा, कोऽसौ इत्याह-इन्द्रभूतिः, इति गाथार्थः ॥५९८॥ स च भगवत्समीपं प्राप्य भगवन्तं च चतुस्त्रिंशदतिशयसमन्वितं त्रिदशासुरनरेश्वरपरिवृतं दृष्ट्वा साशङ्कः तदग्रतस्तस्थौ, अत्रान्तरे
आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । णामेण य गोत्तेण य सवण्णू सव्वदरिसीणं ॥५९९ ॥ व्याख्या-'आभाषितश्च' संलप्तश्च, केन ?-जिनेन, किंविशिष्टेन ?-जातिः-प्रसूतिः जरा-वयोहानिलक्षणा मरणं-दश
XXX-
॥२४॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org