________________
जीव उता
***
बन्धमोक्न सन्ति न
12, उच्य
जीवे कम्मे तज्जीव भूय तारिसय बंधमोखे य । देवा जेरइए या पुणे परलोय व्वाणे ॥५९६॥ . व्याख्या-एकस्य जीवे संशयः-किमस्ति नास्ति इति, तथा परस्य कर्मणि, ज्ञानवरणीयादिलक्षणं कर्म किमस्ति | नास्ति ? इति, अपरस्य 'तज्जीवे' त्ति किं तदेव शरीरं स एव जीव उत अन्य इति, न जीवसत्तायाम् इति, तथा 'भूते'ति अपरस्य भूतेषु संशयः, पृथिव्यादीनि भूतानि सन्ति न वेति, अपरस्य 'तारिसय' त्ति किं यो यादृश इह भवे स तादृश एव अन्यस्मिन्नपि ? उत नेति, 'बन्धमोक्खे यत्ति अपरस्य तु किं बन्धमोक्षौ स्तः ? उत न इति, आह-कर्मसंशयात् अस्य को विशेष इति ?, उच्यते, स कर्मसत्तागोचरः, अयं तु तदस्तित्वे सत्यपि जीवकर्मसंयोगविभागगोचर इति, तथा अपरस्य देवाः किं सन्ति ? नेति वा, अपरस्य तु नारकाश्च संशयगोचराः, किं ते सन्ति न सन्ति वा ?, तथा अपरस्य पुण्ये संशयः, कर्मणि सत्यपि किं पुण्यमेव प्रकर्षप्राप्तं प्रकृष्टसुखहेतुः, तदेव चापचीयमानमत्यन्तस्वल्पावस्थं दुःखस्य उत तदतिरिक्तं पापमस्ति आहोस्विदेकमेव उभयरूपम् उत स्वतन्त्रमुभयमिति, अपरस्य तु परलोके संशयः, सत्यप्यात्मनि परलोको-भवान्तरलक्षणः किमस्ति नास्ति ? इति, अपरस्य तु निर्वाणे संशयः, निर्वाणं किमस्ति नास्ति ? इति; आहबन्धमोक्षसंशयात् अस्य को विशेष इति, उच्यते, स हि उभयगोचरः, अयं तु केवलविषय एव, तथा कि संसाराभावमात्र एव असौ मोक्षः ? उत अन्यथा ? इत्यादि, इति गाथार्थः ॥ ५९६ ॥ साम्प्रतं गणधरपरिवारमानप्रदर्शनाय आहपंचण्हं पंचसया अबुट्ठसया य होंति दोण्ह गणा। दोण्हं तु जुयलयाणं तिसओतिसओभवे गच्छो ॥५९७॥
व्याख्या-पञ्चानामाद्यानां गणधराणां पञ्च शतानि प्रत्येकं प्रत्येक परिवार इति, तथा अर्द्ध चतुर्थस्य येषु तानि
***
*
ॐ
in
duelon intematonal
For Personal & Private Use Only
www.jainelibrary.org