________________
TOGGLESEARCALCREAMERICA
विधप्राणवियोगरूपम् एभिर्विषमुक्तस्तेन, कथम् ?-नाना च हे इन्द्रभूते ! गोत्रेण च हे गौतम ! किंविशिष्टेन जिनेन इत्याह-सर्वज्ञेन सर्वदर्शिना । आह-यो जरामरणविप्रमुक्तः स सर्वज्ञ एवेति गतार्थत्वात् विशेषणवैयर्थ्य, न, नयवादपरिकल्पितजात्यादिविप्रमुक्तमुक्तनिरासार्थत्वात् तस्येति, तथा च कैश्चित् अचेतना मुक्ता गुणवियोगमोक्षवादिभिरिष्यन्त एवेति गाथार्थः॥५९९॥ इत्थं नामगोत्रसंलप्तस्य तस्य चिन्ताऽभवत्-अहो नामापि मे विजानाति, अथवा प्रसिद्धोऽहं, को मान वेत्ति?, यदि मे हृद्गतं संशयं ज्ञास्यति अपनेष्यति वा, स्यान्मम विस्मय इति, अत्रान्तरे भगवानाहकिं मन्नि अत्थि जीवो उआहु नत्थित्ति संसओ तुज्झ। वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥६००॥ | व्याख्या हे गौतम ! किं मन्यसे-अस्ति जीव उत नास्तीति, ननु अयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः, तेषां वेदपदानां चार्थ न जानासि, यथा न जानासि तथा वक्ष्यामः, तेषामयमर्थो-वक्ष्यमाणलक्षण इति । अन्ये तु-किंशब्दं परिप्रश्नार्थे व्याचक्षते, तच्च न युज्यते,भगवतः सकलसंशयातीतत्वात् , संशयवतश्च तत्प्रयोगदर्शनात् , किमित्थमन्यथेति वा, अथवा किमस्ति जीव उत नास्ति इति मन्यसे,अयं संशयस्तव, शेषं पूर्ववदिति गाथार्थः॥६००॥ यदुक्तम्-'संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धन' इति, तान्यमूनि वेदपदानि-"विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्य सज्ञाऽस्ती” त्यादीनि, तथा'स वै अयमात्मा ज्ञानमय' इत्यादीनि च, एतेषां चायमर्थो भवतः चेतसि विपरिवर्तते-विज्ञानमेव चैतन्यं, नीलादिरूपत्वात् , चैतन्यविशिष्टं यन्नीलादि तस्मात् , तेन घनो विज्ञानघनः, स एव 'एतेभ्यः' अध्यक्षतः परिच्छिद्यमानस्वरूपेभ्यः, केभ्यः?-भूतेभ्यः पृथिव्यादिलक्षणेभ्यः,किम् ?-'समुत्थाय' उत्पद्य, पुनस्तानि
Jain Education International
For Personal & Private Use Only
www.janelibrary.org