SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ आवश्यक- एव अनु विनश्यति' अनु-पश्चाद्विनश्यति विज्ञानघनः, 'न प्रेत्य संज्ञाऽस्ति' प्रेत्य मृत्वा न पुनर्जन्म न परलोकसञ्ज्ञाऽस्ति इति हारिभद्री भावार्थः। ततश्च कुतोजीवः ?, युक्त्युपपन्नश्च अयमर्थः, (इति) ते मतिः-यतः प्रत्यक्षेणासौ न परिगृह्यते, यतः 'सत्संप्र- यवृत्तिः ॥२४२॥ योगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षं न चास्य इन्द्रियसम्प्रयोगोऽस्ति, नाप्ययमनुमानगोचरः, यतः-प्रत्यक्षपुरस्सरं विभाग: १ पूर्वोपलब्धलिङ्गलिङ्गिसम्बन्धस्मृतिमुखेन तत्प्रवर्त्तते, गृहीताविनाभावस्य धूमादनलज्ञानवत्, न च इह तल्लिङ्गाविनाभावग्रहः, तस्याप्रत्यक्षत्वात् , नापि सामान्यतोदृष्टादनुमानात् सूर्येन्दुगतिपरिच्छेदवत् तदवगमो युज्यते, दृष्टान्तेऽपि तस्याध्यक्षतोडग्रहणात्, न चागमगम्योऽपि, आगमस्यानुमानादभिन्नत्वात् , तथा च-घटे घटशब्दप्रयोगोपलब्धावुत्तरत्र घटध्वनिश्रवणात् (ग्रन्था०६०००) अन्वयव्यतिरेकमुखेन घट एवानुमितिरुपजायते, न च इत्थमात्मशब्दः शरीरादन्यत्र प्रयुज्यमानो दृष्टो Fयमात्मशब्दात् प्रतिपद्येमहि इति, किं च-आगमानामेकज्ञेयेऽपि परस्परविरोधेन प्रवृत्तेरप्रमाणत्वात् , तथा च-एतावा-18 नेव पुरुषो, यावानिन्द्रियगोचरः। भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः॥१॥' इत्यागमः, तथा 'न रूपं भिक्षवः पुद्गल' इत्याद्यपरः, पुद्गले रूपं निषिध्यते, अमूर्त आत्मा इत्यर्थः, तथा 'अकर्ता निर्गुणो भोक्ता' इत्यादिश्चान्यः, तथा 8 स वै अयमात्मा ज्ञानमय' इत्याद्यपर इति, एते च सर्व एव प्रमाणं न भवन्ति, परस्परविरोधेन एकार्थाभिधायकत्वात्, ॥२४२॥ पाटलिपुत्रस्वरूपाभिधायकपरस्परविरुद्धवाक्यपुरुषवातवत् , अतो न विद्मः-किमस्ति नास्ति ?, इत्ययं ते अभिप्रायः, तत्र वेदपदानां चार्थ न जानासि, चशब्दात् युक्किं हृदयं च, तेषामेकवाक्यतायामयमर्थः-'विज्ञानधन एवे'ति Jain Educati onal For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy