Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 484
________________ आवश्यक ॥२४०॥ मध्यमायां 'समवसृताः' एकीभूताः, क ?-यज्ञपाट इति गाथार्थः॥५९२॥आह-किमाद्याः किनामानो वा त एते गणधराः । हारिभद्रीइति ?, उच्यते यवृत्तिः पढमित्थ इंदई बिइओ उण होइ अग्गिभूइत्ति । तइए य वाउभूई तओ वियत्ते सुहम्मे य ॥५९३॥ | विभागः१ व्याख्या-प्रथमः 'अत्र' गणधरमध्ये इन्द्रभूतिः, द्वितीयः पुनर्भवति अग्निभूतिरिति, तृतीयश्च वायुभूतिः, ततो व्यक्तः चतुर्थः सुधर्मश्च पञ्चमः, इति गाथार्थः॥ ५९३ ॥ मंडियमोरियपुत्ते अकंपिए चेव अयलभाया य । मेयजे य पभासे गणहरा होंति वीरस्स ॥५९४ ॥ व्याख्या-मण्डिकपुत्रः मौर्यपुत्रः, पुत्रशब्दः प्रत्येकमभिसम्बध्यते, अकम्पितश्चैव अचलभ्राता च मेतार्यश्च प्रभासः, एते गणधरा भवन्ति वीरस्य इति गाथार्थः॥ ५९४ ॥ जंकारण णिकखमणं वोच्छं एएसि आणुपुव्वीए । तित्थं च सुहम्माओ हिरवच्चा गणहरा सेसा ॥५९५॥ __ व्याख्या-'यत्कारणं' यन्निमित्तं निष्क्रमणं यत्तदोर्नित्यसम्बन्धात् तत् वक्ष्ये 'एतेषां गणधराणाम् 'आनुपूर्व्या' परिपाट्या, तथा तीर्थ च सुधर्मात् सञ्जातं, 'निरपत्याः शिष्यगणरहिताः गणधराः 'शेषाः' इन्द्रभूत्यादयः इति गाथार्थः॥ ५९५ ॥ तत्र जीवादिसंशयापनोदनिमित्तं गणधरनिष्क्रमणमितिकृत्वा यो यस्य संशयस्तदुपदर्शनायाह - * सुधर्मेति स्थावाच्यं, परं सुधर्म इति संज्ञा तस्य, यद्वा 'सुः पूजाया' मिति तत्पुरुषे अभ्रादित्वादे सुधर्म इति, अथ च समासान्तविधेरनित्यत्वाद् , अथवा केषाचिन्मतेनान् विकल्पत एवेति बोध्यं यथायथं सुधिया. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514