Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
ASSSSSSSSSS
असङ्ख्येयभवेषु यदभवद्भविष्यति वा, यद्वा वस्तुजातं परस्तु पृच्छेत् तत्सर्वं कथयतीति, अनेनाशेषाभिलाप्यपदार्थप्रतिपादनशक्तिमाह, किं बहुना ?-'न च' नैव, णमिति वाक्यालङ्कारे, 'अणाइसेसि'त्ति अनतिशयी अवध्याद्यतिशयरहित इत्यर्थः,विजानाति यथा एष गणधरछद्मस्थ इति,अशेषप्रश्नोत्तरप्रदानसमर्थत्वात्तस्येति गाथार्थः ॥५९०॥ समवसरणं समत्तं । । एवं तावत्समवसरणवक्तव्यता सामान्येनोक्ता, प्रकृतमिदानी प्रस्तूयते-तत्र भगवतः समवसरणे निष्पन्ने सत्यत्रान्तरे देवजयशब्दसम्मिश्रदिव्यदुन्दुभिशब्दाकर्णनोत्फुल्लनयनगगनावलोकनोपलब्धस्वर्गवधूसमेतसुरवृन्दानां यज्ञपाटकसमीपाभ्यागतजनानां परितोषोऽभवद्-अहो स्विष्टं, विग्रहवन्तः खलु देवा आगता इत्याहतं दिव्वदेवघोसं सोऊणं माणुसा तहिं तुट्ठा । अहो(हु) जण्णिएण जडं देवा किर आगया इहई॥५९१ ॥
व्याख्या-तं दिव्यदेवघोष श्रुत्वा मनुष्याः तत्र' यज्ञपाटे तुष्टाः, 'अहो ! विस्मये, यज्ञेन यजति लोकानिति याज्ञिकः | सेनेष्टं, कुतः ?-एते देवाः किल आगता अत्रेति, किलशब्दः संशय एव, तेषामन्यत्र गमनादिति गाथार्थः॥५९१ ॥ तत्र च यज्ञपाटे वेदार्थविदः एकादशापि गणधरा ऋत्विजः समन्वागता इत्याह चएक्कारसवि गणहरा सव्वे उण्णयविसालकुलवंसा । पावाएँ मज्झिमाए समोसढा जन्नवाडम्मि ॥५९२॥
व्याख्या-एकादशापि गणधराः समवस्ताः यज्ञपाट इति योगः, किंभूता इत्याह-'सर्वे' निरवशेषाः उन्नताः-प्रधानजातित्वात् विशाला:-पितामहपितृव्याद्यनेकसमाकुलाः कुलान्येव वंशाः-अन्वया येषां ते तथाविधाः, पापायां
Jain Education International
For Personal & Private Use Only
niww.jainelibrary.org

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514