Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
प्रत्ययो भातदर्थाचा उच्यते
आवश्यक इति । भगवत्युत्थिते द्वितीयपौरुष्यामाद्यगणधरोऽन्यतमो वा धर्ममाचष्टे । आह-भगवानेव किमिति नाचष्टे ?, तत्कथने हारिभद्रीके गुणा इति ?, उच्यते
यवृत्तिः ॥२३९॥
| खेयविणोओसीसगुणदीवणा पच्चओउभयओऽवि । सीसायरियकमोऽविय गणहरकहणे गुणा होंति॥५८८॥ विभागः१ __ व्याख्या-खेदविनोदो भगवतो भवति, परिश्रमविश्राम इत्यर्थः, तथा 'शिष्यगुणदीपना' शिष्यगुणप्रख्यापना च
कृता भवति, तथा प्रत्यय उभयतोऽपि श्रोतॄणामुपजायते-यथा भगवताऽभ्यधायि तथा गणधरेणापि, गणधरे वा तदन-2 8 न्तरं तदुक्तानुवादिनि प्रत्ययो भवति श्रोतृणाम् नान्यथावाद्ययमिति, तथा शिष्याचार्यक्रमोऽपि च दर्शितो भवति, 3
आचार्यात् उपश्रुत्य योग्यशिष्येण तदर्थान्वाख्यानं कर्त्तव्यमिति, एते गणधरकथने गुणा भवन्ति इति गाथार्थः ॥५८८॥ आह-स गणधरः व निषण्णः कथयतीति ?, उच्यतेराओवणीयसीहासणे निविट्ठो व पायवीदंमि । जिट्ठो अन्नयरो वा गणहारी कहइ बीआए ॥५८९॥ व्याख्या-राज्ञा उपनीतं राजोपनीतं राजोपनीतं च तत् सिंहासनं चेति समासः, तस्मिन् राजोपनीतसिंहासने उपविष्टो वा भगवत्पादपीठे, स च ज्येष्ठः अन्यतरो वा गणं-साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी कथयति द्वितीयायां पौरुष्यामिति गाथार्थः॥ ५८९ ॥ आह-स कथयन् कथं कथयतीति ?, उच्यते
॥२३९॥ तसंखाईएवि भवे साहइ ज वा परो उ पुच्छिज्जा। ण य णं अणाइसेसी वियाणई एस छउमत्थो ॥५९०॥
व्याख्या-सङ्ख्यातीतानपि भवान् , असङ्ख्येयानित्यर्थः, किं ?-'साहइत्ति देशीवचनतः कथयति, एतदुक्तं भवति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514