Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 480
________________ आवश्यक ॥२३८॥ | देवाणुअति भत्ती पूया थिरकरण सत्तअणुकंपा । साओदय दाणगुणा पभावणा चेव तित्थस्स ॥ ५८३ ॥ व्याख्या - देवानुवृत्तिः कृता भवति, कथं ?, यतो देवा अपि भगवतः पूजां कुर्वन्त्यतः तदनुवृत्तिः कृता भवति, तथा | भक्तिश्च भगवतः कृता भवति, तथा पूजा च, तथा स्थिरीकरणमभिनवश्राद्धकानां, तथा कथक सत्त्वानुकम्पा च कृतेति, तथा सातोदयवेदनीयं बध्यते, एते दानगुणाः, तथा प्रभावना चैव तीर्थस्य कृता भवतीति गाथार्थः ॥ ५८३ ॥ द्वारं ॥ साम्प्रतं | देवमाल्यद्वारावयवार्थमधिकृत्योच्यते तत्र भगवान् प्रथमां सम्पूर्णपौरुषीं धर्ममाचष्टे, अत्रान्तरे देवमाल्यं प्रविशति, बलिरित्यर्थः, आह-कस्तं करोति इति ?, उच्यते | राया व रायमचो तस्सऽसई पउरजणवओ वाऽवि । दुब्बलिखंडिय बलिछडियतंदुलाणाढगं कलमा ॥ ५८४॥ व्याख्या- 'राजा वा' 'चक्रवर्त्तिमण्डलिकादिः 'राजामात्यो वा' अमात्यो - मन्त्री, तस्य राज्ञोऽमात्यस्य वा असति-अभावे नगरनिवासिविशिष्टलोकसमुदायः पौरं तत्करोति, ग्रामादिषु जनपदो वा, अत्र जनपदशब्देन तन्निवासी लोकः परिगृह्यते, स किंविशिष्टः किंपरिमाणो वा क्रियत इति ?, आह - 'वुब्बली' त्यादि, तत्र दुर्बलिकया खण्डितानां 'बली'ति बलवत्या छटितानां तन्दुलानाम् आढकं - चतुःप्रस्थपरिमाणं, 'कलमे 'ति प्राकृतशैल्या कलमानां - तन्दुलानाम् इति गाथार्थः ॥ ५८४ ॥ किंविशिष्टानामिति ? आहभाइयपुणाणियाणं अखंडफुडियाण फलगसरियाणं । कीरइ बली सुरावि य तत्थेव छुर्हति गंधाई ॥ ५८५ ॥ व्याख्या - विभक्तपुनरानीतानां भाजनम् - ईश्वरादिगृहेषु वीननार्थमर्पणं तेभ्यः प्रत्यानयनं - पुनरानयनमिति, विभक्ता Jain Educat cational For Personal & Private Use Only 66 हारिभद्दीयवृत्तिः विभागः १ ॥२३८॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514