________________
आवश्यक
॥२३८॥
| देवाणुअति भत्ती पूया थिरकरण सत्तअणुकंपा । साओदय दाणगुणा पभावणा चेव तित्थस्स ॥ ५८३ ॥ व्याख्या - देवानुवृत्तिः कृता भवति, कथं ?, यतो देवा अपि भगवतः पूजां कुर्वन्त्यतः तदनुवृत्तिः कृता भवति, तथा | भक्तिश्च भगवतः कृता भवति, तथा पूजा च, तथा स्थिरीकरणमभिनवश्राद्धकानां, तथा कथक सत्त्वानुकम्पा च कृतेति, तथा सातोदयवेदनीयं बध्यते, एते दानगुणाः, तथा प्रभावना चैव तीर्थस्य कृता भवतीति गाथार्थः ॥ ५८३ ॥ द्वारं ॥ साम्प्रतं | देवमाल्यद्वारावयवार्थमधिकृत्योच्यते तत्र भगवान् प्रथमां सम्पूर्णपौरुषीं धर्ममाचष्टे, अत्रान्तरे देवमाल्यं प्रविशति, बलिरित्यर्थः, आह-कस्तं करोति इति ?, उच्यते
| राया व रायमचो तस्सऽसई पउरजणवओ वाऽवि । दुब्बलिखंडिय बलिछडियतंदुलाणाढगं कलमा ॥ ५८४॥
व्याख्या- 'राजा वा' 'चक्रवर्त्तिमण्डलिकादिः 'राजामात्यो वा' अमात्यो - मन्त्री, तस्य राज्ञोऽमात्यस्य वा असति-अभावे नगरनिवासिविशिष्टलोकसमुदायः पौरं तत्करोति, ग्रामादिषु जनपदो वा, अत्र जनपदशब्देन तन्निवासी लोकः परिगृह्यते, स किंविशिष्टः किंपरिमाणो वा क्रियत इति ?, आह - 'वुब्बली' त्यादि, तत्र दुर्बलिकया खण्डितानां 'बली'ति बलवत्या छटितानां तन्दुलानाम् आढकं - चतुःप्रस्थपरिमाणं, 'कलमे 'ति प्राकृतशैल्या कलमानां - तन्दुलानाम् इति गाथार्थः ॥ ५८४ ॥ किंविशिष्टानामिति ? आहभाइयपुणाणियाणं अखंडफुडियाण फलगसरियाणं । कीरइ बली सुरावि य तत्थेव छुर्हति गंधाई ॥ ५८५ ॥ व्याख्या - विभक्तपुनरानीतानां भाजनम् - ईश्वरादिगृहेषु वीननार्थमर्पणं तेभ्यः प्रत्यानयनं - पुनरानयनमिति, विभक्ता
Jain Educat cational
For Personal & Private Use Only
66
हारिभद्दीयवृत्तिः विभागः १
॥२३८॥
www.jainelibrary.org