________________
A
R
RARRRRRECRUCIA
दारावयवार्थमधिकृत्योच्यते-तत्र भगवान् येषु नगरादिषु विहरति, तेभ्यो वार्ता ये खल्वानयन्ति, तेभ्यो यत्प्रयच्छन्ति वृत्ति
दानं प्रीतिदानं च चक्रवर्त्यादयस्तदुपप्रदिदर्शयिषुराहवित्ती उ सुवण्णस्सा वारस अद्धं च सयसहस्साई । तावइयं चिय कोडी पीतीदाणं तु चक्किस्स ॥५८०॥
व्याख्या-वृत्तिस्तु' वृत्तिरेव नियुक्तपुरुषेभ्यः, कस्येत्याह-सुवर्णस्य, द्वादश अर्द्ध च शतसहस्राणि, अर्द्धत्रयोदश सुवर्णलक्षा इत्यर्थः, तथा तावत्य एव कोव्यः प्रीतिदानं तु, केषामित्याह-चक्रवर्तिनां, तत्र वृत्तिर्या परिभाषिता नियुक्तपुरुषेभ्यः, प्रीतिदानं यद् भगवदागमननिवेदने परमहर्षात् नियुक्तरेभ्यो दीयत इति, तत्र वृत्तिः संवत्सरनियता, प्रीतिदानमनियतम् , इति गाथार्थः॥५८० ॥ ____ एयं चेव पमाणं णवरं रययं तु केसवा दिति । मंडलिआण सहस्सा पीईदाणं सयसहस्सा ॥५८१॥ ___ व्याख्या-एतदेव प्रमाणं वृत्तिप्रीतिदानयोः, नवरं 'रजतं तुरूप्पंतु 'केशवा' वासुदेवा ददति, तथा माण्डलिकानां राज्ञां सहस्राण्यर्द्धत्रयोदश रूप्यस्य वृत्तिनियुक्तेभ्यो वेदितव्या, 'पीईदाणं सतसहस्सं'ति'सूचनात् सूत्र' मिति प्रीतिदानमर्द्धत्रयोदशशतसहस्राण्यवगन्तव्यानीति गाथार्थः॥ ५८१॥ किमेत एव महापुरुषाः प्रयच्छन्ति ?, नेत्याहभत्तिविहवाणुरूपं अण्णेऽवि य देंति इन्भमाईया। सोऊण जिणागमणं निउत्तमणिओइएसुंवा॥५८२॥
व्याख्या-भक्तिविभवानुरूपं अन्येऽपि च ददति इभ्यादयः, इभ्यो-महाधनपतिः, आदिशब्दात् नगरपामभोगिकादयः, कदा?-श्रुत्वा जिनागमनं,केभ्यो?-नियुक्तानियोजितेभ्यो वेति,गाथार्थः॥५८२॥ तेषामित्थं प्रयच्छतां के गुणा इति,उच्यते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org