Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 479
________________ A R RARRRRRECRUCIA दारावयवार्थमधिकृत्योच्यते-तत्र भगवान् येषु नगरादिषु विहरति, तेभ्यो वार्ता ये खल्वानयन्ति, तेभ्यो यत्प्रयच्छन्ति वृत्ति दानं प्रीतिदानं च चक्रवर्त्यादयस्तदुपप्रदिदर्शयिषुराहवित्ती उ सुवण्णस्सा वारस अद्धं च सयसहस्साई । तावइयं चिय कोडी पीतीदाणं तु चक्किस्स ॥५८०॥ व्याख्या-वृत्तिस्तु' वृत्तिरेव नियुक्तपुरुषेभ्यः, कस्येत्याह-सुवर्णस्य, द्वादश अर्द्ध च शतसहस्राणि, अर्द्धत्रयोदश सुवर्णलक्षा इत्यर्थः, तथा तावत्य एव कोव्यः प्रीतिदानं तु, केषामित्याह-चक्रवर्तिनां, तत्र वृत्तिर्या परिभाषिता नियुक्तपुरुषेभ्यः, प्रीतिदानं यद् भगवदागमननिवेदने परमहर्षात् नियुक्तरेभ्यो दीयत इति, तत्र वृत्तिः संवत्सरनियता, प्रीतिदानमनियतम् , इति गाथार्थः॥५८० ॥ ____ एयं चेव पमाणं णवरं रययं तु केसवा दिति । मंडलिआण सहस्सा पीईदाणं सयसहस्सा ॥५८१॥ ___ व्याख्या-एतदेव प्रमाणं वृत्तिप्रीतिदानयोः, नवरं 'रजतं तुरूप्पंतु 'केशवा' वासुदेवा ददति, तथा माण्डलिकानां राज्ञां सहस्राण्यर्द्धत्रयोदश रूप्यस्य वृत्तिनियुक्तेभ्यो वेदितव्या, 'पीईदाणं सतसहस्सं'ति'सूचनात् सूत्र' मिति प्रीतिदानमर्द्धत्रयोदशशतसहस्राण्यवगन्तव्यानीति गाथार्थः॥ ५८१॥ किमेत एव महापुरुषाः प्रयच्छन्ति ?, नेत्याहभत्तिविहवाणुरूपं अण्णेऽवि य देंति इन्भमाईया। सोऊण जिणागमणं निउत्तमणिओइएसुंवा॥५८२॥ व्याख्या-भक्तिविभवानुरूपं अन्येऽपि च ददति इभ्यादयः, इभ्यो-महाधनपतिः, आदिशब्दात् नगरपामभोगिकादयः, कदा?-श्रुत्वा जिनागमनं,केभ्यो?-नियुक्तानियोजितेभ्यो वेति,गाथार्थः॥५८२॥ तेषामित्थं प्रयच्छतां के गुणा इति,उच्यते Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514