Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 477
________________ देशनाकरणानुपपत्तेः, तथा ऋद्धिविशेषश्चायं भगवतो-यद् युगपत् सर्वेषामेव संशयिनामशेषसंशयव्यवच्छित्तिं करोतीति ।। अकालहरणं चेत्थं भगवतः, युगपत् संशयाऽपगमात्, क्रमकथने तु कस्यचित् संशयिनोऽनिवृत्तसंशयस्यैव मरणं स्यात्, न च भगवन्तमप्यवाप्य संशयनिवृत्त्यादिफलरहिता भवन्ति प्राणिन इति, तथा सर्वज्ञप्रत्ययोऽपि च तेषामित्यमेव भवति, न ह्यसर्वज्ञो हृद्गताशेषसंशयापनोदायालमिति, क्रमव्याकरणे तु कस्यचिदनपेतसंशयस्य तत्प्रतीत्यभावः स्यात् , तथाऽचिन्त्या गुणभूतिः-अचिन्त्या गुणसंपद् भगवत इति, यस्मादेते गुणास्ततो युगपत्कथयति इति गाथार्थः ॥ ५७६ ॥ द्वारम् ॥ श्रोतृपरिणामः पर्यालोच्यते-तत्र यथा सर्वसंशयिनां समा सा पारमेश्वरी वागशेषसंशयोन्मूलनेन स्वभाषया परिणमते तथा प्रतिपादयन्नाहवासोदयस्स व जहा वण्णादी होंति भायणविसेसा । सव्वेसिपि सभासा जिणभासा परिणमे एवं ॥५७७॥ | व्याख्या-'वर्षोदकस्य वा' वृष्टयुदकस्य वा, वाशब्दात् अन्यस्य वा, यथैकरूपस्य सतः वर्णादयो भवन्ति, भाजनविशेपात्, कृष्णसुरभिमृत्तिकायां स्वच्छं सुगन्धं रसवच्च भवति ऊपरे तु विपरीतम् , एवं सर्वेषामपि श्रोतॄणां स्वभाषया जिनभाषा परिणमत इति गाथार्थः ॥ ५७७ ॥ तीर्थकरवाचः सौभाग्यगुणप्रतिपादनायाहसाहारणासवत्ते तदुवओगो उ गाहगगिराए । न य निव्विजइ सोया किढिवाणियदासिआहरणा ॥ ५७८॥ ___ व्याख्या-साधारणा-अनेकप्राणिषु स्वभाषात्वेन परिणामात् नरकादिभयरक्षणत्वाद्वा, असपला-अद्वितीया, साधारणा(चा)ऽसावसपना चेति समासः, तस्यां साधारणासपत्नायां सत्यां, किम् ?, तस्यामुपयोगस्तदुपयोग एव भवति श्रोतुः, dain Education International For Personal & Private Use Only Linelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514