Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 475
________________ ४ 18'सत्त्वं' वीर्यान्तरायकर्मक्षयोपशमादिजन्य आत्मपरिणामः, सारो द्विधा-बाह्योऽभ्यन्तरश्च, बायो गुरुत्वम् , आभ्यन्तरो ज्ञानादिः,'उच्छासः' प्रतीत एव,संहननं च रूपंच संस्थानं च वर्णश्च गतिश्च सत्त्वं च सारश्च उच्छासश्चेति समासः। एवमादीनि वस्तून्यनुत्तराणि भवन्ति तस्य भगवतः, आदिशब्दात् रुधिरं गोक्षीराभं मांसं चेत्यादि, कुत इत्याह-'नामोदयादिति |४|नामाभिधानं कर्मानेकभेदभिन्नं तदुदयादिति गाथार्थः ॥५७१॥ आह-अन्यासा प्रकृतीनां वेदना गोत्रादयो नाम्नो वा ये द इन्द्रियाङ्गादयः प्रशस्ता उदया भवन्ति ते किमनुत्तरा भगवतः छद्मस्थकाले केवलिकाले वा उत नेति ?, अत्रोच्यते- |पगडीणं अण्णासुवि पसत्थ उद्या अणुत्तरा होंति । खय उवसमेऽविय तहा खयम्मि अविगप्पमाहंसु॥५७२॥ ___ व्याख्या-'पगडीणं अण्णासुवि' त्ति, षष्ठ्यर्थे सप्तमी, प्रकृतीनामन्यासामपि प्रशस्ता उदया उच्चैर्गोत्रादयो भवन्ति, किमितरजनस्येव ?, नेत्याह-'अनुत्तरा' अनन्यसदृशा इत्यर्थः, अपिशब्दान्नाम्नोऽपि येऽन्ये जात्यादय इति । 'खय उवसमेऽवि य तह त्ति,क्षयोपशमेऽपि सति ये दानलाभादयः कार्यविशेषा अपिशब्दादुपशमेऽपिये केचन तेऽप्यनुत्तरा भवन्ति | इति क्रियायोगः, तथा कर्मणः क्षये सति क्षायिकज्ञानादिगुणसमुदयम् 'अविगप्पमाहंसुत्ति अविकल्पं-व्यावर्णनादिविकल्पातीतं सर्वोत्तममाख्यातवन्तः तीर्थकृद्गणधरा इति गाथार्थः ॥५७२ ॥ आह–असातवेदनीयाद्याः प्रकृतयो नाम्नो वा या अशुभास्ताः कथं तस्य दुःखदा न भवन्ति इति ?, अत्रोच्यतेअस्सायमाझ्याओ जावि य असुहा हवंति पगडीओ।णिबरसलवोव्व पएण होंति ता असुया तस्स ॥५७३॥ व्याख्या-असाताद्याः या अपि च अशुभा भवन्ति प्रकृतयः, ता अपि निम्बरसलव इव 'पयसि' क्षीरे लवो-बिन्दुः, HORAIRES ASSISTAX X Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514