Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक
॥२३७॥
तुशब्दस्यावधारणार्थत्वात्, कस्यां १ - ग्राहयतीति ग्राहिका, ग्राहिका चासौ गीश्च ग्राहकगीः तस्यां ग्राहकगिरि, उपयोगे सत्यप्यन्यत्र निर्वेददर्शनादाह-न च निर्विद्यते श्रोता, कुतः खल्वयमर्थोऽवगन्तव्यः ? इत्याह- किंढिवणिगूदास्युदाहरणादिति, तच्चेदम् — एगस्स वाणियगस्स एका किढिदासी, किढी थेरी, सा गोसे कठ्ठाणं गया, तण्हान्छुहाकिलंता मज्झण्हे आगया, अतिथेवा कट्ठा आणीयत्ति पिट्टिता भुक्खियतिसिया पुणो पडविया, सा य वहूं कट्ठयभार ओगाहतीए पोरुसीए गहायागच्छति, कालो य जेट्ठामूलमासो, अह ताए थेरीए कट्ठभाराओ एवं कठ्ठे पडियं, ताहे ताए ओणमित्ता तं गहियं तं समयं च भगवं तित्थगरो धम्मं कहियाइओ जोयणनीहारिणा सरेणं, सा थेरी तं सद्दं सुर्णेती तहेव ओणता सोउमाढत्ता, उण्हं खुहं पिवास परिस्समं च न विंदइ, सूरत्थमणे तित्थगरो धम्मं कहेउ मुडिओ, थेरी गया । एवंसव्वाउअंपि सोया खवेज्ज जइ हु सययं जिणो कहए। सीउण्हखुप्पिवासापरिस्समभए अविगणेंतो ॥ ५७९ ॥
व्याख्या - भगवति कथयति सति सर्वायुष्कमपि श्रोता क्षपयेत् भगवत्समीपवत्त्यैव, यदि हु 'सततम्' अनवरतं जिनः | कथयेत् । किंविशिष्टः सन्नित्याह — शीतोष्ण क्षुत्पिपासापरिश्रमभयान्यविगणयन्निति गाथार्थः। ५७९ | द्वारम् । साम्प्रतं दानद्वा
१ एकस्य वणिजः एका काष्ठिकी दासी, काष्ठिकी स्थविरा, सा गोसे ( प्रत्युषसि ) काष्ठेभ्यो गता, तृष्णाक्षुधाकान्ता मध्याह्ने आगता, अतिस्तोकानि काष्ठान्यानीतानीति पिट्टिता बुभुक्षिततृषिता पुनः प्रस्थापिता, सा च वृहन्तं काष्ठभारमवगाहमानायां पौरुष्यां गृहीत्वागच्छति, कालश्च ज्येष्ठामूलो मासः, अथ तस्याः स्थविरायाः काष्ठभारात् एकं काष्ठं पतितं, तदा तयाऽवनम्य तद्गृहीतं, तस्मिन् समये च भगवांस्तीर्थकरो धर्म कथितवान् योजनव्यापिना स्वरेण, सा स्थविरा तं शब्दं शृण्वन्ती तथैवावनता श्रोतुमारब्धा, उष्णं क्षुधां पिपासां परिश्रमं च न वेत्ति, सूर्यास्तमये तीर्थकरो धर्मं कथयिस्वोत्थितः, स्थविरा गता.
Jain Education onal
For Personal & Private Use Only
हारिभद्र यवृत्तिः विभागः १
॥२३७॥
www.jainelibrary.org

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514