________________
देशनाकरणानुपपत्तेः, तथा ऋद्धिविशेषश्चायं भगवतो-यद् युगपत् सर्वेषामेव संशयिनामशेषसंशयव्यवच्छित्तिं करोतीति ।। अकालहरणं चेत्थं भगवतः, युगपत् संशयाऽपगमात्, क्रमकथने तु कस्यचित् संशयिनोऽनिवृत्तसंशयस्यैव मरणं स्यात्, न च भगवन्तमप्यवाप्य संशयनिवृत्त्यादिफलरहिता भवन्ति प्राणिन इति, तथा सर्वज्ञप्रत्ययोऽपि च तेषामित्यमेव भवति, न ह्यसर्वज्ञो हृद्गताशेषसंशयापनोदायालमिति, क्रमव्याकरणे तु कस्यचिदनपेतसंशयस्य तत्प्रतीत्यभावः स्यात् , तथाऽचिन्त्या गुणभूतिः-अचिन्त्या गुणसंपद् भगवत इति, यस्मादेते गुणास्ततो युगपत्कथयति इति गाथार्थः ॥ ५७६ ॥ द्वारम् ॥ श्रोतृपरिणामः पर्यालोच्यते-तत्र यथा सर्वसंशयिनां समा सा पारमेश्वरी वागशेषसंशयोन्मूलनेन स्वभाषया परिणमते तथा प्रतिपादयन्नाहवासोदयस्स व जहा वण्णादी होंति भायणविसेसा । सव्वेसिपि सभासा जिणभासा परिणमे एवं ॥५७७॥ | व्याख्या-'वर्षोदकस्य वा' वृष्टयुदकस्य वा, वाशब्दात् अन्यस्य वा, यथैकरूपस्य सतः वर्णादयो भवन्ति, भाजनविशेपात्, कृष्णसुरभिमृत्तिकायां स्वच्छं सुगन्धं रसवच्च भवति ऊपरे तु विपरीतम् , एवं सर्वेषामपि श्रोतॄणां स्वभाषया जिनभाषा परिणमत इति गाथार्थः ॥ ५७७ ॥ तीर्थकरवाचः सौभाग्यगुणप्रतिपादनायाहसाहारणासवत्ते तदुवओगो उ गाहगगिराए । न य निव्विजइ सोया किढिवाणियदासिआहरणा ॥ ५७८॥ ___ व्याख्या-साधारणा-अनेकप्राणिषु स्वभाषात्वेन परिणामात् नरकादिभयरक्षणत्वाद्वा, असपला-अद्वितीया, साधारणा(चा)ऽसावसपना चेति समासः, तस्यां साधारणासपत्नायां सत्यां, किम् ?, तस्यामुपयोगस्तदुपयोग एव भवति श्रोतुः,
dain Education International
For Personal & Private Use Only
Linelibrary.org