SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ हारिभद्री | यवृत्तिः विभागः १ आवश्यक न भवन्ति ताः अशुभदाः असुखदावा 'तस्य' तीर्थकरस्येति गाथार्थः ॥५७३॥ उक्तमानुषङ्गिकं, प्रकृतद्वारमधिकृत्याह उत्कृष्टरूपतया भगवतः किं प्रयोजनमिति ?, अत्रोच्यते,॥२३६॥ धम्मोदएण रूवं करेंति रूवस्सिणोऽवि जइ धम्मं । गिज्झवओ य सुरूवो पसंसिमो तेण रूवं तु ॥५७४॥ व्याख्या-दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः तस्योदयः तेन रूपं भवतीति श्रोतारोऽपि प्रवर्तन्ते, तथा कुर्वन्ति 'रूपस्विनोऽपि' (वस्सिणोऽवि) रूपवन्तोऽपि यदि धर्म ततः शेषैः सुतरां कर्त्तव्य इति श्रोतृबुद्धिःप्रवर्तते, तथा 'ग्राह्यवा क्यश्च' आदेयवाक्यश्च सुरूपो भवति, चब्दात् श्रोतृरूपाद्यभिमानापहारी च अतः, प्रशंसामो भगवतस्तेन रूपमिति 18 गाथार्थः॥ ५७१ ॥ द्वारम् । अथवा पृच्छेति भगवान् देवनरतिरश्चां प्रभूतसंशयिनां कथं व्याकरणं कुर्वन् संशयव्यव|च्छित्तिं करोतीति !, उच्यते, युगपत् , किमित्याह कालेण असंखणवि संखातीताण संसईणं तु।मा संसयवोच्छित्ती न होज कमवागरणदोसा ॥५७५ ॥ व्याख्या-कालेनासवेयेनापि सङ्ख्यातीतानां संशयिनां-देवादीनां मा संशयव्यवच्छित्तिर्न भवेत् , कुतः-क्रमव्याकरणदोषात्, अतो युगपद् व्यागृणातीति गाथार्थः ॥ ५७५ ॥ युगपद्व्याकरणगुणं प्रतिपिपादयिषुराहसव्वत्थ अविसमत्तं रिडिविसेसो अकालहरणं च । सव्वण्णुपच्चओऽविय अचिंतगुणतिओ जुगचं ॥५७६॥ ___ व्याख्या-'सर्वत्र' सर्वसत्त्वेषु 'अविषमत्वं' युगपत् कथनेन तुल्यत्वं भगवत इति, रागद्वेषरहितस्य तुल्यकालसंशयिनां युगपत् जिज्ञासतां कालभेदकथने रागेतरगोचरचित्तवृत्तिप्रसङ्गात् , सामान्यकेवलिनां तत्प्रसङ्ग इति चेत् , न, तेषामित्थं २३६॥ Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy