Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक
हारिभद्री यवत्तिः विभाग: १
॥२३॥
व्याख्या-अभ्यन्तरे मध्ये च बहिर्विमानज्योतिर्भवनाधिपकृतास्तु आनुपूर्व्या प्राकारास्त्रयो भवन्ति, 'रयणे कणगे य रयए यत्ति रत्नेषु भवो रानः रत्नमय इत्यर्थः, तं विमानाधिपतयः कुर्वन्ति, कनके भवः कानकः तं ज्योतिर्वासिनः कुर्वन्ति, राजतो-रूप्यमयश्च तं भवनपतयः कुर्वन्ति इति गाथार्थः ॥ ५४९ ॥ मणिरयणहेमयाविय कविसीसा सव्वरयणिया दारा।सव्वरयणामय चिय पडागधयतोरणविचित्ता ॥५५०॥ । व्याख्या-मणिरत्नहेममयान्यपि च कपिशीर्षकाणि, तत्र पञ्चवर्णमणिमयानि प्रथमप्राकारे वैमानिकाः, नानारत्नमयानि द्वितीये ज्योतिष्काः, हेममयानि तृतीये भवनपतय इति, तथा सर्वरत्नमयानि द्वाराणि त एव कुर्वन्ति, तथा सर्वरत्नमयान्येव मूलदलतः पताकाध्वजप्रधानानि तोरणानि विचित्राणि कनकचन्द्रस्वस्तिकादिभिः, अत एव प्रागुक्तं मणिकनकरत्नविचित्रत्वमेतेषामविरुद्धमिति गाथार्थः ॥ ५५० ॥
तत्तो य समंतेणं कालागरुकुंदुरुक्कमीसेणं । गंधेण मणहरेणं धूवघडीओ विउव्वेंति ॥५५१॥ व्याख्या-ततश्च समन्ततः कृष्णागरुकुन्दुरुक्कमिश्रेण गन्धेन मनोहारिणा युक्ताः, किम् ?-धूपघटिका विकुर्वन्ति | त्रिदशा एवेति गाथार्थः॥ ५५१॥
उक्कुहिसीहणायं कलयलसद्देण सव्वओ सव्वं । तित्थगरपायमूले करेंति देवा णिवयमाणा ॥५५२॥ व्याख्या-तत्रोत्कृष्टिसिंहनादं तीर्थकरपादमूले कुर्वन्ति देवा निपतमानाः, उत्कृष्टिः-हर्षविशेषप्रेरितो ध्वनिविशेषः, किंविशिष्टम् -कलकलशब्देन 'सर्वतः' सर्वासु दिक्षु युक्तं 'सर्वम्' अशेषमिति गाथार्थः॥ ५५२ ॥
॥२३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514