Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 15
________________ बृहद्वत्तिः । विशेषा. ॥६१३॥ नियतो निश्चितो हितो वाऽनुकूलः मूत्रस्याभिधेयेन सह यः खलु योगः संबन्धः स नियोगो मतः । अयं च सभेदः सलक्षणः सोदाहरणश्चानुयोगवदेव विज्ञेय इति ॥ १४१९ ॥ अथ भाषाखरूपमभिधित्सुराह भासा वत्ता वाया सुयवत्तीभावमित्तयं सा य । सुयभावमित्तयं जह सामाइयमिहेवमाईयं ॥ १४२०॥ भाष व्यक्तायां वाचि' भाषणं भाषा व्यक्ता वागित्यर्थः। सा चेह व्यक्तिः श्रुतस्य व्यक्तिभावमात्ररूपैव गृह्यते, न त्वशेषविशेषरूपा विभाषा, वार्तिकविषयत्वात् तस्याः । अत्रोदाहरणमाह- यथाऽव्यक्तमनवबुद्धविशेषरूपं तत् श्रुतभावमात्रमविज्ञातव्यक्तरूपस्य विने| यस्य भाषकेन व्याख्यात्रा व्यक्तीक्रियते । कथम् ?, इत्याह- सामायिकमिदं शास्त्रपरिज्ञा, अध्ययनं वा, एतस्य च सामायिका| देरयं शब्दार्थ इत्यादि । इदमुक्तं भवति-भाषक-विभाषक-वार्तिककारभेदात् त्रिविधाः श्रुतस्य व्याख्यातारः । तत्र भाषकोऽविज्ञातविशेषस्वरूपस्य श्रुतमात्रस्य सव्युत्पत्तिकविशेषनाममात्रकथनेन व्यक्तिमात्रं कृत्वा चरितार्थो भवति । यथा समस्याऽऽयः सामायिकमिस त्यादि । तदेवं भाषकसंवन्धिन्या भाषायाः स्वरूपमुक्तम् ।। १४२० ॥ ___ अथ विभापकमणीतविभाषायाः स्वरूपमाहविविहा विसेसओ वा होइ विनासा दुगाइपज्जाया । जह सामइयं समओ सामाओ वा समाओ वा ॥१४२२॥ विविधा भाषाऽनेकपर्यायैः श्रुतस्य व्यक्तीकरणं विभाषा, विशेषतो वा भाषा विभाषा, भाषापेक्षया सविशेष श्रुतस्य व्यक्तीकरणपित्यर्थः । एतदेवाह- यादयः पर्याया यस्यां सा द्वयादिपर्याया विभाषेत्यर्थः । अत्राप्युदाहरणमाह- यथा 'करेमि भंते ! सामाइयं इत्यादि श्रुतमिदं सामायिकमुच्यते- सर्वेषामपि मुमुक्षूणां समये संकेते भवं सामायिकमित्यर्थः । सर्वेऽपि हि मुमुक्षवः सर्वसावधविरमणरूपेऽस्मिन्नेवागत्य प्रथमं तिष्ठन्ति, तत उत्तरोत्तरगुणप्राप्त्या सर्वक्लेशेभ्यो मुच्यन्त इति भावः । अथवा, 'समओ त्ति' सम्यगयनं मुक्तिमार्गे प्रवर्तनं यस्मात् तत् समयः सामायिकमेवोच्यते । यदिवा, 'सामाउ त्ति' साम सर्वेषामपि जीवानां प्रियं तस्य साम्न आयः प्राप्तिः सामायः सामायिकमभिधीयते । अथवा 'समाउ ति' समस्य राग-द्वेषविरहितस्याऽऽयः प्रतिसमयमपूर्वापूर्वकर्मनिर्ज , भाषा व्यका वाक् श्रुतम्यक्तीभावमात्रक सा च । श्रुतभावमात्रकं यथा सामायिकमिदवमादिकम् ।। १४२०॥ २ विविधा विशेषतो वा भवति विभाषा विकादिपर्याया। यथा सामयिक समयः सामायो वा समायो वा ॥ १४२१॥३ करोमि भगवन् ! सामायिकम् । ॥६१३॥ Jan Education internat For and Private Us Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 202