Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 14
________________ विशे० ॥ १२ ॥ "संसट्ठमसंसट्ठा उद्धड तह होइ अप्पलेवा य । उम्गहिआ पग्गहिआ उज्झिअधम्मा य.सत्तमिया" ॥१॥ एतासां सप्तानां पिण्डैषणानां मध्ये आद्यद्वयवर्ज शेषपञ्चानां मध्यादन्यतरैषणाव्याभिग्रहेणाऽऽहारं गृह्णाति- एकया भक्तम् , अपरया त्वेषणया पानकमिति । एवमाद्यागमोक्तविधिना गच्छान्तर्गतः पूर्वमेवाऽऽत्मानं परिकर्म्य ततो जिनकल्पं प्रतिपित्सुः सङ्घ मीलयति, तदभावे स्वगणं तावदवश्यमाहयते । ततस्तीर्थकरसमीपे, तदभावे गणधरसंनिधाने, तदसत्त्वे चतुर्दशपूर्वधरान्तिके, तदसंभवे दशपूर्वधराभ्यणे, तदलाभे तु वटा-ऽश्वत्था-ऽशोकक्षादीनामासत्तौ जिनकल्पमभ्युपगच्छति । निजपदव्यवस्थापितं मूरिम् , सबालवृद्धं गच्छम् , विशेषतः पूर्वविरुद्धांश्च क्षमयति, तद्यथा "जैइ किंचि पमाएणं न सुटु मे वट्टि मए पुच्विं । तं भे! खामेमि अहं निस्सल्लो निक्कसाओ य ॥१॥ आणंदमंसुपायं कुणमाणा ते वि भूमिगयसीसा । खामंति ते जहरिहं जहारिहं खामिआ तेणं ॥२॥ खातस्स गुणा खलु निस्सल्लयविणयदीवणा मग्गे । लाघवियं एगत्तं अप्पडिबन्धो अ जिणकप्पो" ॥ ३ ॥ निजपदस्थापितमूरिप्रभृतीनामनुशास्ति प्रयच्छति, तद्यथा “पाँलेज सगणमेयं अप्पडिबद्धो य होज सव्वत्थ । ऎसो हु परंपरओ तुम पि अंते कुणसु एवं" ॥ १॥ नमसमरसत १ संसृष्टासंसृष्टे उद्धता तथा भवत्यल्पलेपा च । उद्गृहीता प्रगृहीता उज्झितधर्मा च सप्तमी ॥१॥ संसृष्टाभ्यां तत्खरष्टिताभ्यां हस्तपात्राभ्यां भिक्षा संसृष्टा, असंसृष्टाभ्यां तु ताभ्यामसंसृष्टा, स्थाल्यादिभ्यः स्वार्थ भोजनाय उत्क्षिप्ता उद्धता, निलेप पृथुकादि तत्स्वरूपाऽल्पलेपा, भोजनकाले शरावाद्याहितभोज्यवस्तुमध्यादुत्पाटिता, भोजनार्थ करोपात्तभोज्यमध्याद् दातुमिष्टा प्रगृहीता, अन्याऽनभिलव्यमाणा परित्यव्यमानभक्ताद्यन्नरूपा उजिझतधर्मा इति। २ यदि किञ्चित् प्रमादेन न सुष्टु युष्माकं वर्तितं मया पूर्वम् । तं भगवन् ! क्षमयाम्यहं निःशल्यो निष्कषायश्च ॥ १ ॥ आनन्दाथुपातं कुर्वाणास्तेऽपि (साधवः) भूमिगतः । क्षमयन्ति ते यथाई यथाई क्षमितास्तेन ॥२॥ क्षमयतश्च गुणाः खलु निःशल्यकविनवदीपना मागें । लाघवमेकत्वमप्रतिबन्धन जिनकल्पः ॥३॥ ३ पालयेः खगणमेतमप्रतिबद्ध भवेः सर्वत्र । एष खलु परम्परकस्त्वमप्यन्ते कुयों एवम् ॥१॥ ४ "एष च परम्परकः शिष्याचार्यक्रमो यदव्यवच्छित्तिकारकं शिष्यं निष्पाद्य शक्तौ सत्यामभ्युद्यतविहारः प्रतिपत्तव्यः, खमप्यन्ते शिष्यनिष्पादनादिकार्यपवसाने एवमेव कुर्याः" इति बृहत्कल्पभाष्यढीकायां श्रीक्षेमकीर्तिसूरिः । RRRRESS ॥१२॥ Edutainer For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 202