Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 13
________________ विशे० वृहद्धत्तिः । CHNDERBAR गच्छपरिपालनक्षमाः शिष्याः, ततो विशेषेणैव सांप्रतं ममाऽऽत्महितमनुष्ठातुमुचितमिति । विचिन्त्य चेदं सति परिज्ञाने आत्मीयमायुःशेष स्वयमेव पर्यालोचयति, तदभावेऽन्यमतिशयिनमाचार्यादिकं पृच्छतिः तत्र स्तोके खायुषि भक्तपरिज्ञादीनामन्यतरद् मरणं प्रति- पद्यते । अथ दीर्घमायुः, केवलं जङ्घारलपरिक्षीणः, तदा वृद्धवासं स्वीकुरुतेः पुष्टायां तु शक्तौ जिनकल्पादिप्रतिपत्तिमुररीकरोति । तत्र ॥११॥ EPH जिनकल्प प्रतिपित्सुना प्रथममेव तावत् पञ्चभिस्तुलनाभिरात्मा तोलनीयः, तद्यथा ___तैवेण सत्तेण सुत्तेण एगत्तेण बलेण य । तुलणा पंचहा वुत्ता जिणकप्पं पडिवजओ" ॥१॥ तुलना, भावना, परिकर्म चेत्येकार्थानि । तत्राऽऽचार्यो-पाध्याय-प्रवर्तक-स्थविर-गणावच्छेदकलक्षणाः प्रायः पञ्चैव जनाः प्रशस्ताभिरेताभिः पञ्चभिर्भावनाभिर्जिनकल्पं प्रतिपित्सवः प्रथममेवाऽऽत्मानं भावयन्ति । अप्रशस्तास्तु-कन्दर्प-देवकिल्विषका-ऽऽभियोगिका सुर-संमोहस्वरूपाः पञ्च भावनाः सर्वथा दूरतः परित्यजन्ति । तत्र तपसाऽऽत्मानं भावयंस्तथा बुभुक्षां पराजयते यथा देवाशुपसर्गादिनाऽनेषणादिकरणतो यदि षण्यासान् यावदाहारं न लभते, तथापि न बाध्यते । सत्त्वभावनया तु भयं पराजयते, तत्र भयजयार्थ रात्रौ सुप्तेषु शेषसाधुषूपाश्रय एव कायोत्सर्ग कुर्वतः प्रथमा सत्त्वभावना भवति, द्वितीयादिकास्तूपाश्रयबाह्यादिप्रदेशेषु । आह च "पंढमा उबस्सयम्मि बीया बाहिं तइया चउक्कम्मि । सुष्णहरम्मि चउत्थी अह पंचमिया मसाणम्मि" ॥१॥ सूत्रभावनया तु स्वनामवत् सूत्रं परिचितं तथा करोति यथा रात्री दिवा चोच्छासप्राणस्तोकलवमुहूर्तादिकं कालं मूत्रपरावर्तनानुसारेणैव सर्व सम्यगवबुध्यते । एकत्वभावनया चाऽऽत्मानं भावयन् सङ्घाटिकसाध्वादिना सह पूर्वप्रवृत्तानालाप-सूत्रार्थ-सुखदुःखादिप्रश्न-मिथःकथादिव्यतिकरान् सर्वानपि परिहरति, ततो बाह्यममत्वे मूलत एव व्यवच्छेदिते पश्चाद् देहो-पध्यादिभ्योऽपि भिन्नमात्मानं पश्यन् सर्वथा तेष्वपि निरभिष्वङ्गो भवति । बलभावनायां बलं द्विविधम् - शारीरम् , मानसधृतिबलं च । तत्र शारीरमपि बलं जिनकल्पार्हस्य शेषजॅनातिशायिकमेष्टव्यम् , तपःप्रभृतिभिस्त्वपकृष्यमाणस्य यद्यपि शारीरं बलं तथाविधं न भवति, तथापि धृतिबलेनाऽऽत्मा तथा भावयितव्यो यथा महद्भिरपि परीषहोपसगर्ने बाध्यते । एताभिः पञ्चभिर्भावनाभिर्भाविताऽऽत्मा जिनकल्पिकप्रतिरूपो गच्छेऽपि प्रतिवसन्नाहारादि परिकर्म प्रथममेव करोति, तत्राहारे तृतीयपौरुष्यामवगाढायां वल्ल-चणकादिकमन्तं प्रान्तं रूक्षं च तपसा सवेन सूत्रेणकत्वेन बलेन च । तुलना पञ्चधोक्ता जिनकल्पं प्रतिपद्यमानस्य ॥१॥ २ प्रथमा उपाश्रये नितीया बहिस्तृतीया चतुष्के । शून्पगृहे चतुर्थी अध पञ्चमी श्मशाने ॥1॥ 1ग, 'मुत्रअगारे'। ४ ख. घ. छ. 'मनोधृतियलम्'। ५ क. ग. 'जनातिशायक' । www.jainelibrary.org Jan Eduinema For Personal and Private Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 202