Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 163
________________ १०४] [वसन्तविलासमहाकाव्यम् ॥ श्रीवस्तुपाल ! तव भालतले जिनाज्ञा वाणी मुखे हृदि कृपा करपल्लवे श्रीः । देहे द्युतिविलसतीति रुषेव कीर्तिः पैतामहं सपदि धाम जगाम नाम ॥३५॥ अपरस्तु- अनिःसरन्तीमपि गेहगर्भात् कीर्ति परेषामसतीं वदन्ति । स्वैरं भ्रमन्तीमपि वस्तुपाल ! त्वत्कीतिमाहुः कवयः सती तु ॥३६॥ इतरस्तु- सेयं समुद्रवसना तव दानकीर्तिपूरोत्तरीयपिहितावयवा समन्तात् । अद्यापि कर्णविकलेति न लक्ष्यते यत्तन्नाद्भुतं सचिवपुङ्गव वस्तुपाल ! ॥३७॥ कश्चित्तु- क्रमेण मन्दीकृतकर्णशक्तिः प्रकाशयन्ती च बलिस्वभावम् । कैर्नानुभूता सशिरःप्रकम्पं जरेव दत्तिस्तव वस्तुपाल ! ॥३८॥ तेभ्यः कविभ्यः सहस्रलक्षाणि ददिरे । एवं गायनभट्टादिभ्योऽपि । यावज्जातं प्रातरिव, तदा मल्लवादिभिः स्वसेवकाश्चैत्यद्वारद्वयेऽपि नियुक्ताः । एकं द्वारमन्यदिशि, एकं च मठदिशि । उक्तं च तेभ्यः, मन्त्री चैत्यान्निःसरन् ज्ञापनीयः । क्षणेन वस्तुपालो मठद्वारन्निर्गच्छति, तावता सेवकज्ञापिताः सूरयः संमुखाः स्थिताः । मन्त्रिणा रीढया भ्रूप्रणाम इव कृतः । आचार्यैरभिहितम् "दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति" विजीयतां, तीर्थानि पूज्यन्ताम् । मन्त्री कौतुकात् तथैव तस्थौ, किं पर्यवसानेयं प्रस्तावनेति ध्यानादूचे च । न विद्मः परमार्थं किमतेदधिधध्वे । आचार्यैरुक्तं पुरो गम्यतां, भवतां कार्याणि भूयांसि । मन्त्री सविशेषं पृच्छति । सूरयो वदन्ति सचिवेन्द्र ! श्रूयताम् । मरुग्रामे क्वचिद् ग्रामारा: स्थूलबहुललोमशाः पशवो वसन्ति पर्षदि निषीदन्ति, कपोलझल्लरी वादयन्ति । तत्रैकदा वेलाकूलीयचर: पान्थ आगमत् । नवीन इति कृत्वा ग्राम्यैराहूतः, पृष्टः, कस्त्वं क्वत्यः । तेनोक्तं समुद्रतटेऽवात्सम् । पान्थः पुरो यामिकैः पृष्टः, समुद्रः केन खानितः । तेनोचे स्वयम्भूः सः पुनस्तैः पृष्टं कियान् सः । पान्थेनोक्तमलब्धपारः । किं तत्रास्ते इति पृष्टे पुनस्तेनाचख्ये ग्रावाणो मणयो हरिर्जलचरो लक्ष्मी: पयोमानुषी मुक्तौघाः सिकताः प्रवाललतिकाः शेवालमम्भः सुधा । तीरे कल्पमहीरुहः किमपरं नाम्नापि रत्नाकरः ॥३९॥ इति पादत्रयं पठित्वा व्याख्याय पुरो गतः पान्थः । तेषु ग्राम्येष्वेकः सकौतुकः पृच्छम्पृच्छं समुद्रतटमगात् । दृष्टः कल्लोलमालाचुम्बितगगनाग्रः समुद्रः । तुष्टः सः, अचिन्तयच्च ऋद्धयः सर्वा लप्स्यन्ते, प्रथमं तृषितः सलिलं पिबामि । तद्दग्धः कोष्ठः । ततः पठति वरि वियरो जहिं जणु पियइ घुट्टग्घुटु चुलुएहिं । सायरि अस्थि बहु य जल छि खारउं किं तेण ॥४०॥ तैरेव पादैनष्टः स्वास्पदं गतः । तथा वयमपि स्मः । मन्त्रिणोक्तं कथं तथा यूयं, यथा स ग्राम्यः । सूरयस्तारमूचुः । महामात्य ! वयमिह पार्श्वनाथसेवका: त्रैविद्यविद्याविदः सर्वर्द्धयः शृणुमः, यथा धवलक्कके श्रीवस्तुपालो मन्त्री सरस्वतीकण्ठाभरणो भारतीप्रतिपन्नपुत्रो विद्वज्जनमधुकरसहकारः सारासारविचारविदास्ते । तदुत्कण्ठितास्तत्रागन्तुमीश्वरत्वाच्च न गच्छामः । क्वापि कदाचिदत्र तीर्थमित्येताऽत्र मन्त्री। तस्य पुरो वक्ष्यामः स्वैरं सूक्तानि इति ध्यायतामस्माकं मन्त्रिमिश्रा अप्यागताः । D:\bsnta-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211