Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 173
________________ ११४] प्रावृट्काले पयोराशिरासीद् गर्जितवर्जितः । सोमेश्वरः पूरयति स्म - अन्तः सुप्तजगन्नाथनिद्राभङ्गभयादिव ॥७७॥ तुरङ्गमषोडशकमुचितदाने । पुनः कदाचिन्मन्त्रिणोक्तम्'काकः किं वा क्रमेलकः " । सोमेश्वरेण पूरितं पद्यम् I [ वसन्तविलासमहाकाव्यम् ॥ येनागच्छन्माख्यातो येनानीतश्च मे पतिः । प्रथमं सखि ! कः पूज्यः काकः किं वा क्रमेलकः ॥७८॥ अत्रापि षोडशसहस्त्रद्रम्माणां दत्तिः । एवं लीलास्तस्य । एकदा श्रुतमैतिह्यं वृद्धेभ्यः, यथा प्राग्वाटवंशे श्रीविमलो दण्डनायकः नेढ - चाहिलयोभ्राताऽभवत् । स चिरमर्बुदाधिपत्यमभुनक् गूर्जरेश्वरप्रसत्तेः । तस्य विमलस्य विमलमतेर्वाञ्छाद्वयमभूत् पुत्रवाञ्छा प्रासादवाञ्छा च । तत्सिद्ध्यै अम्बामुपवासत्रयेणारराध । प्रत्यक्षीभूय सा प्राह । वत्स ! वाञ्छां ब्रूहि । विमलो जगौ पुत्रेच्छा प्रासादनिष्पत्तीच्छा चार्बुदशृङ्गे मे वर्त्तते । अम्बया प्रोक्तं द्वे प्राप्ती न स्तः, एकां ब्रूहि । ततो विमलेन संसारवृद्धिमात्रफलामसारां पुत्रेच्छां मुक्त्वा प्रासादेच्छैव सफलीकर्तुमिष्टा । अम्बयोक्तं सेत्स्यत्ययं चैत्याभिलाषः परं क्षणं प्रतीक्षस्व, यावताऽहं गिरिवरार्बुदाधिष्ठात्र्याः सख्याः श्रीमातुर्मतं गृह्णामि । विमलो ध्यानेन तस्थौ । श्रीमातृमतं लावा देव्यायाता अभाणच्च । पुष्पस्रग्दामरुचिरं दृष्ट्वा गोमयगोमुखम् । प्रासादार्हां भुवं विद्याः श्रीमातुर्भवनान्तिके ॥७९॥ तत्तथा दृष्ट्वा चम्पकद्रुमसन्निधौ तीर्थमस्थापयत् । पैत्तिलप्रतिमा महती । विक्रमादित्यात् सहस्त्रोपरि वर्षाणामष्टाशीतौ गतायां चतुर्भिः सूरिभिरादिनाथं प्रत्यतिष्ठिपत् । विमलवसतिरिति प्रासादस्य नाम । तस्मिन् दृष्टे जन्मफलं लभ्यते । एतत्कथाश्रवणान्मन्त्री दध्यौ । वयं चत्वारोऽभूम, द्वौ स्तः, द्वौ तु मालदेव- लूणिगावल्पवयसौ दिवमगाताम् । मालदेवनाम्ना कीर्त्तनानि प्रागप्यकारिषत कियन्त्यपि । लूणिगश्रेयसे तु लूणिगवसतिरर्बुदे काराप्या । एतत्तेजःपालाय प्रकाशितम् । तेन विनीतेन सुतरां मेने । अत तेजः पालो धवलक्ककादर्बुदगिरिभूषणां चन्द्रावतीपुरीमगात् । धारावर्षराणकगृहमगात् । तेनात्यर्थं पूजितः किं कार्यमादिश्यतामित्युक्तं च । मन्त्रिणोक्तम्, अर्बुदग्रे प्रासादं कारयामहे, यदि यूयं सहायाः स्यात । धारावर्षेण भणितं तव सेवकोऽस्मिन् अहं सर्वकार्येषु धुरि योज्यः । ततो राष्ट्रिकगौग्गलिकादयो महादानैर्वशीकृताः, तथा निष्पत्स्यमानचैत्यं करैर्न भारयन्ति । दानेन भूतानि वशीभवन्ति । ततश्चन्द्रावतीमहाजनमुख्यं श्रावकं चाम्पलनामानं गृहे गत्वा आललाप । वयं चैत्यमर्बुदे कारयामो, यदि पूजासान्निध्यं कुरुध्वे । चाम्पलेनापि स्वस्य कुटुम्बान्तराणामपि देवपूजार्थं नित्यधनचिन्ता कृता । ततो मन्त्री आरासणं गत्त्वा चैत्यनिष्पत्तियोग्यं दलवाटकं निरकाशयत् । तद्युग्यै रहकलैश्चार्बुदोपत्यकामानीनयत् । अर्द्धक्रोशार्द्धक्रोशान्तरे हट्टानि । सर्वं लभ्यते, पशूनां नराणां कृच्छ्रं माभूदिति । उम्बरिणीपथेन प्रासादनिष्पत्तियोग्यं दलं द्विगुणमुपरि गिरेः प्रवेशयामास । पुनस्तां पद्यां विषमाञ्चकार, यथा परचक्रस्य प्रवेशो न भवेत् । एवं सिद्धे कर्मणि शोभनदेवं सूत्रधारमाहूय कर्मस्थाये न्ययुङ्क्त । ऊदलाख्यं श्यालमुपरिस्थायिनमकरोत् । D:\bsnta-p.pm 5 \ 2nd proof

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211