Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥]
[११७ शूरेषु रेखां प्राप्तः, यो वर्षाकालेऽकस्मादुपरि पतन्त्या विद्युत उद्देशेन कृपाणीमा-कृषत । स एकदा क्वचिदेकादशीपर्वणि धवलक्ककमध्यतरुतलमगमत् । तत्र पर्वण्यसौ रीतिः । वैष्णवैः सर्वैरष्टोत्तरशतं बदराणामामलकानां वा द्रम्माणां वा मोक्तव्यम् । तरोरधः वीरमेणाष्टोत्तरं शतं द्रम्माणां मुक्तम् । एकेन तु वणिजा तस्यामेव सभायां स्थितेनाष्टोत्तरंशतमाछूनां मुक्तम् । वीरमेण तस्योपरिकृपाणिका कृष्टा । रे! अस्मत्तः किमधिकं करोषीति च वदन् वणिज हन्तुमन्वधावत् । वणिक् नंष्ट्वा वीरधवलाध्यासितां सभामाविशत् । जातः कलकलः । ज्ञातं पारम्पर्यं वीरधवलेन । वणिजि पश्यति वीरमो हक्कितः । का ते चर्या यद्ययं त्वदधिकं करोति, अस्माकं न्यायं न वेत्सि । दूरे भव, पुनर्मे दृष्टौ नागन्तव्यम् । वणिजो मम जङ्गमः कोशो मयि जीवति केनाभिभूयन्ते । इत्युक्त्वा तं वीरमग्रामाख्ये आसन्नग्रामेऽतिष्ठिपत् । स तु कौणिककुमारवत् कंसवत् पितरि द्विष्टो जीवन्मृतम्मन्योऽस्थात् । वीसलस्तु राणश्रीवीरधवलस्य वल्लभः श्रीवस्तुपालस्य च । अत्रान्तरे श्रीवीरधवलोऽचिकित्स्येन व्याधिना जग्रसे । तदा वीरमः स्वसहायैर्बलवान् भूत्वा राज्यार्थी राणकमिलनमिषेण धवलक्ककमागात् । तदैव वस्तुपालेन तं दुराशयं ज्ञात्वा प्रत्युत्पन्नमतित्वादश्वगजहेमादिषु परमाप्तमानुषैः परमो यत्नः कृतः । वीरमः प्रभवितुं न शशाक। धवलक्कके एव स्वे सौधे विपुलेऽवतस्थे । दिनैस्त्रिभिर्वीरधवलो दिवं गतः । लोकः शोकसमुद्रे पतितः । बहुभिश्चितारोहणं कृतम् । मन्त्री तु सपरिजनः काष्ठानि भक्षयन्नपरापरैर्मन्त्रिभिनिषिद्धः । उक्तं च देव ! त्वयि सति राणपादा स्वयं जीवन्तीव । त्वयि लोकान्तरिते परिपूर्णाः पिशुनानां मनोरथाः, गता गूर्जरधरा । ततो न मृतो मन्त्री । तत उत्थापनदिने मन्त्री सभासमक्षं पठति
आयान्ति यान्ति च परे ऋतवः क्रमेण सञ्जातमेतदृतुयुग्मगत्वरं तु ।
वीरेण वीरधवलेन विना जनानां वर्षा विलोचनयुगे हृदये निदाघः ॥१०॥ अतीव निःश्वस्य गताः सर्वे स्वस्थानम् । ततश्च मृते वीरधवले तद्राज्यलिप्सुर्वीरमः सन्ना गृहान्निर्गमिष्यति यावता, तावता श्रीवस्तुपालेन वीसलकुमारो राज्ये निवेशितः । श्रीवीसलदेव इति नाम प्रख्यापितम् । सर्वराज्याङ्गेषु आप्तनरै रक्षा कारिता । स्वयं वीसलं गृहीत्वा साराश्वखुरपुटक्षुण्णक्षमापीठोच्छलद्रजःपुञ्जस्थगितव्योमा राजन्यकक्रूरकरवालशल्यभल्लकिरणद्विगुणद्योतितरविकिरणो वीरमसम्मुखो ययौ । दारुणः समरो जज्ञे । वीरमः स्वस्य तेजसोऽनवकाशं मन्यमानो नष्ट्वाश्वसुरेण राजकुलेनोदयसिंहेनाधिष्ठितं जाबालिपुरं प्रत्यचालीत् । मन्त्री तस्याशयं दक्षतया ज्ञात्वा षोडशयोजनिकान्नरानुदयसिंहान्तिके प्रेषीत् । आख्यापयत् यथाऽमुं राजद्विष्टकारकं जामातृज्ञातेयेन यदि स्वान्तिके स्थापयिष्यसि, तदा तेन राज्यं न जीवितव्यं च । हन्याश्चैनम् । ततो वीरमो जाबालिपुरोधानं प्राप्तः । तदा विश्राम्यन्नङ्गरक्षामुत्तारयन् अलसायमान उदयसिंहनियुक्तैर्धनुर्धरैः शरशतजर्जरश्चालनीप्रायकायः कृतः मृतश्च । तस्य शिरो वीसलदेवाय प्रहितमुदयसिंहेन । ततो जातं निष्कण्टकं वीसलदेवराज्यम् । यावन्मात्रं वीरधवलेन साधितं, तावन्मात्रात् किमपि न्यूनं नासीत् । केबलं लब्धप्रसरेण वीसलेन श्रीवस्तुपालो लघुतया दृष्टः ।
पुरुषः सम्पदामग्रमारोहति यथा यथा । गुरूनपि लघुत्वेन सम्पश्यति तथा तथा ॥९१॥
D:\bsnta-p.pm5\2nd proof

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211