Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 177
________________ ११८ ] [ वसन्तविलासमहाकाव्यम् ॥ राज्ञा नागडनामा विप्रः प्रधानीकृतः । मन्त्रिणोः पुनर्लघु श्रीकरणमात्रं दत्तम् । एकश्च समराकनामा प्रतीहारो राज्ञोऽस्ति । स प्रकृत्या नीचः । पूर्वमन्यायं कुर्वाणो मन्त्रिवस्तुपालेन पीडितोऽभूत् । स लब्धावकाश उपराजं ब्रूते । देव ! अनयोः पार्श्वेऽनन्तं धनमास्ते तद्याच्यताम् । राजाऽपि तावाहूयावादीत् । अर्थो दीयताम् । ताभ्यामुक्तम् - अर्थः शत्रुञ्जयादिषु व्ययितत्वान्नास्ति नः । राज्ञोक्तं तर्हि दिव्यं दीयताम् । मन्त्रिभ्यामभिहितं यद्दिव्यं भवद्भ्यस्तदाऽऽदिश्यताम् । राज्ञा घटसर्पः पुरस्कृतः । लवणप्रसादो निषेधति तदकृत्यम् । न च तद्वचनं राजा शृणोति अभिनवदर्पवशात् तदा सोमेश्वरेणोक्तं काव्यमेकं वीसलं प्रति I मासान्मांसलपाटलापरिमलव्यालोलरोलम्बतः प्राप्य प्रौढिमिमां समीर ! महतीं हन्त त्वया किं कृतम् । सूर्याचन्द्रमसौ निरस्ततमसौ दूरं तिरस्कृत्य य त्पादस्पर्शसहं विहायसि रजः स्थाने तयो: स्थापितम् ॥ ९२ ॥ निवर्तितं दिव्यं राज्ञा । अथ कदाचिद्धवलक्कके मन्त्रिणि वसति सति पौषधशालैकास्ते । तस्या उपरितनं पुञ्जकं क्षुल्लकोऽधः क्षिपन्नासीत् । स पुञ्जको वीसलदेवमातुलस्य सिंहस्य याप्ययानारूढस्याधो रथ्यायां गच्छतः शिरसि पतितः । क्रुद्धः स मध्ये आगत्य क्षुल्लकं दीर्घेण तर्जकेन पृष्ठे दृढमाहत्य रे ! मां जेठुयकं सिंहं राजमातुलं न जानासीति वदन् स्वगृहं गतः । तं वृत्तान्तं मध्याह्ने मन्त्रिवस्तुपालं भोजनारम्भे उत्क्षिप्तप्रथमकवलं रुदन्नुद्घाटितपृष्ठोऽजिज्ञपत् क्षुल्लकः । मन्त्रिणा अभुक्तेनैवोत्थाय क्षुल्लकः सन्धीर्य प्रस्थापितः । स्वयं स्वकीयपरिग्रहो भाषितः । भो क्षत्रियाः ! स कोऽप्यस्ति युष्मासु यो मनोदाहं मे उपशमयति । एकेन राजपुत्रेण भूणपालाख्येनोक्तं देव ! आदेशं देहि । प्राणदानेऽपि तव प्रसादानां नानृणीभवामि । छन्नं मन्त्रिणादिष्टं जेठुयावंशस्य राजमातुलस्य सिंहस्य दक्षिणपाणि छित्वा ढौकय मे । स राजपुत्रस्तथेत्युक्त्वा एकाकी मध्याह्नोद्देशे सिंहावासद्वारे तस्थौ । तावता राजकुलात् सिंह आगतः । राजपुत्रेणाग्रे भूत्वा सिंहायोक्तं मन्त्रिणा श्रीवस्तुपालदेवेनाऽहं वः समीपं केनापि गूढकार्येण प्रेषितोऽस्मि । इतो भूत्वा प्रसाद्यावधार्यताम् । इत्युक्ते स किञ्चित्पराग्भूत्वा यावद्वार्त्ता श्रोतुं यतते तावन्मन्त्रिभृत्येन सिंहस्य करः स्वकरे कृतः, सहसा छुर्या छिन्नः । छिन्नं तं करं गृहीत्वा रे ! वस्तुपालस्य भृत्योऽस्मि, पुनः श्वेताम्बरं परिभवेः इति वदन् चरणबलेन पलाय्य भूणपालो मन्त्र्यन्तिकमगमत्, करमदीदृशत् । मन्त्रिणा शश्लाघेऽसौ । स करः स्वसौधाग्रे बद्धः । स्वमानुषाणि परमाप्तनरगृहेषु मुक्तानि । परिग्रहो भाषितः । यस्य जीविताशा स स्वगृहं यातु जीवतु । अस्माभिर्बलवता महावैरमुपार्जितं, मरणं करस्थमेव, जीविते सन्देहः । तैः सर्वैरप्युक्तं देवेन सह मरणं जीवितं च स्थिताः । ततो गोपुराणि दत्त्वा गृहं नरैः स्वावृतं कृत्वा स्वयं स्वसौधोपरि तस्थौ निषङ्गी कवची धनुष्मान् । ततः सिंहस्यापि परिच्छदो मिलितो बान्धवादिर्भूयान् । गत्वा वस्तुपालं सपुत्रपशुबान्धवं हनिष्यामः इति प्रतिजज्ञे । चलितं जेठुयकसैन्यम् । यावद्राजमन्दिराग्रे आयातं कलकलायमानं तत्, तावदेकेन ज्यायसोक्तं राजा विज्ञप्यते । मा स्म सहसात्कारेण तत्कोपोऽभूत् । ततो विज्ञप्तं राज्ञे । राज्ञा वार्तां ज्ञात्वा विमृश्य भणितम् । अनपराद्धे वस्तुपालो न पीडयति । किञ्चिद्युष्माभिरन्यायः कृतः । मन्त्रिणो गुरुरपीडि तस्मात्तिष्ठतात्रैव वयं D:\bsnta-p.pm 5 \ 2nd proof

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211