________________
११८ ]
[ वसन्तविलासमहाकाव्यम् ॥
राज्ञा नागडनामा विप्रः प्रधानीकृतः । मन्त्रिणोः पुनर्लघु श्रीकरणमात्रं दत्तम् । एकश्च समराकनामा प्रतीहारो राज्ञोऽस्ति । स प्रकृत्या नीचः । पूर्वमन्यायं कुर्वाणो मन्त्रिवस्तुपालेन पीडितोऽभूत् । स लब्धावकाश उपराजं ब्रूते । देव ! अनयोः पार्श्वेऽनन्तं धनमास्ते तद्याच्यताम् । राजाऽपि तावाहूयावादीत् । अर्थो दीयताम् । ताभ्यामुक्तम् - अर्थः शत्रुञ्जयादिषु व्ययितत्वान्नास्ति नः । राज्ञोक्तं तर्हि दिव्यं दीयताम् । मन्त्रिभ्यामभिहितं यद्दिव्यं भवद्भ्यस्तदाऽऽदिश्यताम् । राज्ञा घटसर्पः पुरस्कृतः । लवणप्रसादो निषेधति तदकृत्यम् । न च तद्वचनं राजा शृणोति अभिनवदर्पवशात् तदा सोमेश्वरेणोक्तं काव्यमेकं वीसलं प्रति
I
मासान्मांसलपाटलापरिमलव्यालोलरोलम्बतः
प्राप्य प्रौढिमिमां समीर ! महतीं हन्त त्वया किं कृतम् ।
सूर्याचन्द्रमसौ निरस्ततमसौ दूरं तिरस्कृत्य य
त्पादस्पर्शसहं विहायसि रजः स्थाने तयो: स्थापितम् ॥ ९२ ॥
निवर्तितं दिव्यं राज्ञा । अथ कदाचिद्धवलक्कके मन्त्रिणि वसति सति पौषधशालैकास्ते । तस्या उपरितनं पुञ्जकं क्षुल्लकोऽधः क्षिपन्नासीत् । स पुञ्जको वीसलदेवमातुलस्य सिंहस्य याप्ययानारूढस्याधो रथ्यायां गच्छतः शिरसि पतितः । क्रुद्धः स मध्ये आगत्य क्षुल्लकं दीर्घेण तर्जकेन पृष्ठे दृढमाहत्य रे ! मां जेठुयकं सिंहं राजमातुलं न जानासीति वदन् स्वगृहं गतः । तं वृत्तान्तं मध्याह्ने मन्त्रिवस्तुपालं भोजनारम्भे उत्क्षिप्तप्रथमकवलं रुदन्नुद्घाटितपृष्ठोऽजिज्ञपत् क्षुल्लकः । मन्त्रिणा अभुक्तेनैवोत्थाय क्षुल्लकः सन्धीर्य प्रस्थापितः । स्वयं स्वकीयपरिग्रहो भाषितः । भो क्षत्रियाः ! स कोऽप्यस्ति युष्मासु यो मनोदाहं मे उपशमयति । एकेन राजपुत्रेण भूणपालाख्येनोक्तं देव ! आदेशं देहि । प्राणदानेऽपि तव प्रसादानां नानृणीभवामि । छन्नं मन्त्रिणादिष्टं जेठुयावंशस्य राजमातुलस्य सिंहस्य दक्षिणपाणि छित्वा ढौकय मे । स राजपुत्रस्तथेत्युक्त्वा एकाकी मध्याह्नोद्देशे सिंहावासद्वारे तस्थौ । तावता राजकुलात् सिंह आगतः । राजपुत्रेणाग्रे भूत्वा सिंहायोक्तं मन्त्रिणा श्रीवस्तुपालदेवेनाऽहं वः समीपं केनापि गूढकार्येण प्रेषितोऽस्मि । इतो भूत्वा प्रसाद्यावधार्यताम् । इत्युक्ते स किञ्चित्पराग्भूत्वा यावद्वार्त्ता श्रोतुं यतते तावन्मन्त्रिभृत्येन सिंहस्य करः स्वकरे कृतः, सहसा छुर्या छिन्नः । छिन्नं तं करं गृहीत्वा रे ! वस्तुपालस्य भृत्योऽस्मि, पुनः श्वेताम्बरं परिभवेः इति वदन् चरणबलेन पलाय्य भूणपालो मन्त्र्यन्तिकमगमत्, करमदीदृशत् । मन्त्रिणा शश्लाघेऽसौ । स करः स्वसौधाग्रे बद्धः । स्वमानुषाणि परमाप्तनरगृहेषु मुक्तानि । परिग्रहो भाषितः । यस्य जीविताशा स स्वगृहं यातु जीवतु । अस्माभिर्बलवता महावैरमुपार्जितं, मरणं करस्थमेव, जीविते सन्देहः । तैः सर्वैरप्युक्तं देवेन सह मरणं जीवितं च स्थिताः । ततो गोपुराणि दत्त्वा गृहं नरैः स्वावृतं कृत्वा स्वयं स्वसौधोपरि तस्थौ निषङ्गी कवची धनुष्मान् । ततः सिंहस्यापि परिच्छदो मिलितो बान्धवादिर्भूयान् । गत्वा वस्तुपालं सपुत्रपशुबान्धवं हनिष्यामः इति प्रतिजज्ञे । चलितं जेठुयकसैन्यम् । यावद्राजमन्दिराग्रे आयातं कलकलायमानं तत्, तावदेकेन ज्यायसोक्तं राजा विज्ञप्यते । मा स्म सहसात्कारेण तत्कोपोऽभूत् । ततो विज्ञप्तं राज्ञे । राज्ञा वार्तां ज्ञात्वा विमृश्य भणितम् । अनपराद्धे वस्तुपालो न पीडयति । किञ्चिद्युष्माभिरन्यायः कृतः । मन्त्रिणो गुरुरपीडि तस्मात्तिष्ठतात्रैव वयं
D:\bsnta-p.pm 5 \ 2nd proof