________________
परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥]
[११९ स्वयं करिष्यामो यदुचितम् । ततः सोमेश्वरदेवः पृष्टः । गुरो ! किमत्र युक्तं स्यात् । गुरुणोक्तम्मां तत्पाā प्रहिणु । आयतिपथ्यं करिष्ये । प्रहितः सः । प्राप्तो मन्त्रिसौधद्वारम् । प्राप्तो मन्त्र्यनुज्ञया मन्त्रिपार्श्वम् । पुरोहित आह मन्त्रिन् ! किमेतत् । अल्पे कार्ये कियत्कृतं शुभवद्भिर्भवद्भिः । जेठ्यका मिलिताः सन्ति । राजाऽपि तद्भागिनेयः क्रुद्धः । शम्यतां येन सन्धि कारयामि । अथ मन्त्रीशः प्राह-मरणात् किं भयम् । गुरुपरिभवो दुःसहः । व्यावृत्तं जग्धं पीतं दत्तं विलसितं यदा तदा। यथा तथा मर्तव्यमेव । इदमेकं मरणमस्तु
जीवितैकफलमुद्यमार्जितं लुण्ठितं परत एव यद् यशः ।
ते शरीरकपलालपालनं कुर्वते बत कथं मनस्विनः ॥१३॥ इत्यादि गीर्भिर्मृतिकृतनिश्चयं ज्ञात्वा मन्त्रिणं गुरुर्गत्वा राजानमूचे । राजेन्द्र ! म्रियते एवात्र प्रघट्टके मन्त्री । अग्रेऽपि युद्धे शूरस्तेषु तेषु स्थानेषु । 'तृणं शूरस्य जीवितम्' । ईदृशो योधः क्वचिद्विषमे कार्येऽग्रे धृत्वा घात्यते, नैवं वृथा । बहुधा भवतामुपकारी । स किंप्रभुर्यो भृत्यानां द्वित्रान् मन्तून् न सहते । अस्मदादीनामपि मनसि देवस्य कीदृश्याशा भाविनी । इत्यादि दृढं मृदुसारं निगद्य हस्ते कृतो राजा । राजा प्रोवाच-मन्त्रीह धीरां दत्त्वा सन्मान्य समानीयताम् । गतो गुरुस्तत्र । राजोक्तमुक्त्वा नीतो मन्त्री, परं सन्नद्धबद्धः । राज्ञा विविधतदुपकृतिस्मृत्यानयनमनसा पितृवदुपशमितो मन्त्री । मातुला: पादयोर्लगिताः । स मन्त्रिच्छेदितः सिंहहस्तो लोके दर्शितः बहू राजलोकः । यो मन्त्रिदेवगुरुहन्ता तस्य प्राणान् हनिष्यामः, इत्युक्त्वा जिनमतस्य मन्त्रिणश्च गौरवमवीवृधत् श्रीवीसलदेवः । अथ विक्रमादित्यात् १२९८ वर्षं प्राप्तम् । श्रीवस्तुपालो ज्वररुग्लेशेन पीडितः । तेजःपालं सपुत्रपौत्रं स्वपुत्रं च जयन्तसिंहमभाषत । वत्साः श्रीनरचन्द्रसूरिभिर्मलधारिभिः १२८७ वर्षे भाद्रपदवदि १० दिने दिवगमनसमये वयमुक्ताः मन्त्रिन् ! भवतां ११२९८ वर्षे स्वर्गारोहो भविष्यति । तेषां च वचांसि न चलन्ति, गी:सम्पन्नसिद्धित्वात् । ततो वयं श्रीशत्रुञ्जये गमिष्याम एव ।
गुरुभिषग् युगादीशप्रणिधानं रसायनम् । सर्वभूतदया पथ्यं सन्तु मे भवरुग्भिदे ॥१४॥ लब्धाः श्रियः सुखं स्पृष्टं मुखं दृष्टं तनूरुहाम् ।
पूजितं दर्शनं जैनं न मृत्योर्भयमस्ति मे ॥१५॥ कुटुम्बेन तन्मतम् ।शत्रुञ्जयगमनसामग्री निष्पन्ना। वीसलदेवो मन्त्रिणा साश्रुलोचनः समापृष्टः । ततो नागडगृहं मन्त्री स्वयमगात् । तेनासनादिभिः सत्कृतो बभाषे । वयं भवान्तरशुद्धये विमलगिरिं प्रति प्रतिष्ठामहे । भवद्भिजैनमुनयोऽमी ऋजवः सम्यग् रक्षणीयाः क्लिष्टलोकात् ।
गौर्जरात्रमिदं राज्यं वनराजात् प्रभृत्यभूत् । स्थापितं जैनमन्त्रौघैस्तद्वेषी नैव नन्दति ॥९६॥
१. वसन्तविलासकाव्ये सर्ग १४/श्लोक-३७ मध्ये १२९६ वर्षे मन्त्रिणः स्वर्गारोहः कथितः, सः समीचीनो भाति ।। सं०
D:\bsnta-p.pm5\2nd proof