________________
१२०]
[ वसन्तविलासमहाकाव्यम् ॥
इति ज्ञात्वा मन्त्रिनागडेनोक्तम् । श्वेताम्बरान् भक्त्या गौरवयिष्यामि, चिन्ता न कार्या, स्वस्त्यस्तु वः, इति तद्वचसा समतुषत् । अथ चचाल वस्तुपालः । अङ्केवालीया ग्रामं यावत् प्राप । तत्र शरीरं गाढमसहं दृष्ट्वा तस्थौ । तत्र सहायाताः सूरयो निर्यामणां कुर्वन्ति । मन्त्रीश्वरोऽपि समाधिना सर्वं शृणोति श्रद्दधाति । अनशनं प्रतिपद्य यामे गते स्वयं भणति
न कृतं सुकृतं किञ्चित् सतां संस्मरणोचितम् । मनोरथैकसाराणामेवमेव गतं वयः ॥ ९७॥ यन्मयोपार्जितं पुण्यं जिनशासनसेवया । जिनशासनसेवैव तेन मेऽस्तु भवे भवे ॥ ९८ ॥ या रागिण विरागिण्यः स्त्रियस्ताः कामयेत कः । तामहं कामये मुक्तिं या विरागिणी रागिणी ॥ ९९ ॥ शास्त्राभ्यासो जिनपदनतिः सङ्गतिः सर्वदार्यैः सद्वृत्तानां गुणगणकथा दोषवादे च मौनम् । सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे सम्पद्यन्तां मम भवभवे यावदाप्तोऽपवर्गः ॥ १०० ॥
इति भणन्नेवास्तमितो जिनशासनगगनमण्डनमृगाङ्कः श्रीवस्तुपालः । तदा निर्ग्रन्थैरपि तारपूत्कारमरोदि । का कथा सोदरादीनाम् । तत्र तेजःपालो विलपति
आह्लादं कुमुदाकरस्य जलधेर्वृद्धिः सुधास्यन्दिभिः प्रद्योतैर्नितरां चकोरवनितानेत्राम्बुजप्रीणनम् । एतत्सर्वमनादरादहृदयो नादृत्य राहुर्हहा !
कष्टं चन्द्रमसं ललाटतिलकं त्रैलोक्यलक्ष्म्याः पपौ ॥ १०१ ॥
जयन्तसिंहो वदति - खद्योतमात्रतरला गगनान्तरालमुच्चावचाः कति न दन्तुरयन्ति ताराः । एकेन तेन रजनीपतिना विनाऽद्य सर्वा दिशो मलिनमाननमुद्वहन्ति ॥ १०२ ॥
कवयः प्राहुः- मन्ये मन्दधियां विधे त्वमवधिर्वैरायसे चार्थिणां
यद्वैरोचनशातवाहनबलिश्वेताब्जभोजादयः ।
कल्पान्तं चिरजीविनो न विहितास्ते विश्वजीवातवो मार्कण्डध्रुवलोमशाश्च मुनयः क्लृप्ताः प्रभूतायुषः ॥ १०३ ॥
लोकास्तु वदन्ति - किं कुर्मः कमुपालभेमहि किमु ध्यायाम कं वा स्तुमः
कस्याग्रे स्वमुखं स्वदुःखमलिनं सन्दर्शयामोऽधुना ।
शुष्कः कामतरुर्यदङ्गणगतश्चिन्तामणिश्चाजरत्
क्षीणा कामगवी च कामकलशो भग्नो हहा ! दैवतः ॥ १०४ ॥
D:\bsnta-p.pm5\ 2nd proof