________________
परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥]
[१२१ ततस्तेजःपाल-जयन्तसिंहाभ्यां मन्त्रिदेहस्य शत्रुञ्जयैकदेशे संस्कारः कृतः । संस्कारभूम्यासन्नः स्वर्गारोहणनामा प्रासादो नमिविनमियुतः ऋषभसनाथः कारितः । मन्त्रिण्यौ ललिता-सोखू अनशनेन मम्रतुः । श्रीतेजःपालस्तु अनुपमासहितो मध्यमव्यापारभोगभाक् लेशतस्तथैव दानं तन्वन् १३०८ धामगमत् । शनैः शनैः श्रीजयन्तसिंहोऽपि परलोकमभजत । श्रीअनुपमाऽपि तपसा स्वर्गम-साधयदिति भद्रम् । तयोर्मन्त्रिणोः धर्मस्थानसङ्ख्यां कर्तुं क ईश्वरः, परं गुरुमुखश्रुतं किञ्चि-ल्लिख्यते । लक्षमेकं सपादं जिनबिम्बानां विधापितम् । अष्टादशकोटयः षण्णवतिलक्षाः श्रीशत्रुञ्जयतीर्थे द्रविणं व्ययितम् । द्वादशकोटयोऽशीतिर्लक्षाः श्रीउज्जयन्ते । द्वादशकोट्य-स्त्रिपञ्चाशल्लक्षा अर्बुदगिरिशिखरे लूणिगवसत्याम् । नवशतानि चतुरशीतिश्च पौषधशालाः कारिताः । पञ्चशतानि दन्तमयसिंहासनानाम् । पञ्चशतानि पञ्चोत्तराणि समवसरणानां जादर-मयानाम् । ब्रह्मशालाः सप्तशतानि । सप्तशतानि सत्रागाराणाम् । सप्तशती तपस्विका-पालिकमठानाम् । सर्वेषां भोजननिर्वापादिदानं कृतम् । त्रिंशच्छतानि व्युत्तराणि महेश्वरायतनानाम् । त्रयोदशशतानि चतुरुत्तराणि शिखरबद्धजैनप्रासादानाम् । त्रयोविंशतिशतानि जीर्णचैत्योद्धाराणाम् । अष्टादशकोटिव्ययेन सरस्वतीभाण्डागाराणां त्रयाणां स्थानत्रये करणम् । पञ्चशती ब्राह्मणानां नित्यं वेदपाठं करोति स्म । वर्षमध्ये सङ्घपूजात्रितयम् । पञ्चदशशती श्रमणानां नित्यं गृहे विहरति स्म । तटिककार्पटिकानां सहस्त्रं समधिकं प्रत्येकमभुक्त । त्रयोदश यात्राः सङ्घपतीभूय कारिताः । तत्र प्रथमयात्रायां चत्वारि सहस्राणि पञ्चशतानि शकटानां सशय्यापालकानां, सप्तशती सुखासनानाम् , अष्टादशशती वाहनानाम् , एकोनविंशतिः शतानि श्रीकरीणाम् , एकविंशतिः शतानि श्वेताम्बराणाम् , एकादशशती दिगम्बराणां, चत्वारि शतानि सार्द्धानि जैनगायनानां, त्रयस्त्रिंशच्छती बन्दिजनानाम् । तथा चतुरशीतिस्तडागाः सुबद्धाः । चतुःशती षष्ठ्यधिका वापीनां, पाषाणमयानि द्वात्रिंशदुर्गाणि, दन्तमयजिनरथानां चतुर्विंशतिः, विंशं शतं सागघटितानाम् । सरस्वतीकण्ठा-भरणादीनि चतुर्विंशतिबिरुदानि । चतुःषष्टिर्मसीतयः वस्तुपालस्य । दक्षिणस्यां श्रीपर्वतं यावत् , पश्चिमायां प्रभासं यावत् , उत्तरस्यां केदारपर्वतं यावत् , पूर्वस्यां वाणारसी यावत्तयोः कीर्तनानि । सर्वाग्रेण त्रीणि कोटिशतानि चतुर्दशलक्षा अष्टादशसहस्राणि अष्टशतानि द्रव्यव्ययः । त्रिषष्टिवारान् सङ्ग्रामे जैत्रपदं गृहीतम् । अष्टादश वर्षाणि तयोर्व्यापृतिः ।
श्रीवस्तुपालतेजःपालयोः प्रबन्धः समाप्तः ॥
प्रशस्ति:- श्रीप्रश्नवाहनकुले कोटिकनामनि गणे जगद्विदिते ।
श्रीमध्यमशाखायां हर्षपुरीयाभिधे गच्छे ॥१॥
१. अयं धर्मस्थानसङ्ख्यावृत्तान्तो श्रीजिनप्रभसूरि-विरचिततीर्थकल्पे सम्पूर्णोऽस्ति ।।
D:\bsnta-p.pm5\2nd proof