________________
१२२]
[वसन्तविलासमहाकाव्यम् ॥ मलधारिबिरुदविदितश्रीअभयोपपदसूरिसन्ताने । श्रीतिलकसूरिशिष्यः सूरि: श्रीराजशेखरो जयति ॥२॥ तेनायं मृदुगद्यैर्मुग्धामुग्धावबोधकामेन ।
रचितः प्रबन्धकोशो जयताज्जिनपतिमतं यावत् ॥३॥ तथा- कट्टारवीरदुस्साधवंशमुकुटो नृपौघगीतगुणः ।
बब्बूलीपुरकारितजिनपतिसदनोच्छलत्कीर्तिः ॥४॥ बप्पकसाधोस्तनयो गणदेवोऽजनि सपादलक्षभुवि । तद्भूनकनामा तत्पुत्रः साढको दृढधीः ॥५॥ तत्सूनुः सामन्तः स्वकुलतिलकोऽभवज्जगत्सिंहः । दुर्भिक्षदुःखदलनः श्रीमहमदसाहिगौरवितः ॥६॥ तज्जो जयति सिरिभवः षट्दर्शनपोषणो महणसिंहः । ढिल्ल्यां स्वदत्तवसतौ ग्रन्थमिमं कारयामास ॥७॥ शरगगनमनुमिताब्दे १४०५ ज्येष्ठामूलीयधवलपञ्चम्याम् । निष्पन्नमिदं शास्त्रं श्रोत्रध्येत्रोः सुखं तन्यात् ॥८॥
D:\bsnta-p.pm5\2nd proof