Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 178
________________ परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥] [११९ स्वयं करिष्यामो यदुचितम् । ततः सोमेश्वरदेवः पृष्टः । गुरो ! किमत्र युक्तं स्यात् । गुरुणोक्तम्मां तत्पाā प्रहिणु । आयतिपथ्यं करिष्ये । प्रहितः सः । प्राप्तो मन्त्रिसौधद्वारम् । प्राप्तो मन्त्र्यनुज्ञया मन्त्रिपार्श्वम् । पुरोहित आह मन्त्रिन् ! किमेतत् । अल्पे कार्ये कियत्कृतं शुभवद्भिर्भवद्भिः । जेठ्यका मिलिताः सन्ति । राजाऽपि तद्भागिनेयः क्रुद्धः । शम्यतां येन सन्धि कारयामि । अथ मन्त्रीशः प्राह-मरणात् किं भयम् । गुरुपरिभवो दुःसहः । व्यावृत्तं जग्धं पीतं दत्तं विलसितं यदा तदा। यथा तथा मर्तव्यमेव । इदमेकं मरणमस्तु जीवितैकफलमुद्यमार्जितं लुण्ठितं परत एव यद् यशः । ते शरीरकपलालपालनं कुर्वते बत कथं मनस्विनः ॥१३॥ इत्यादि गीर्भिर्मृतिकृतनिश्चयं ज्ञात्वा मन्त्रिणं गुरुर्गत्वा राजानमूचे । राजेन्द्र ! म्रियते एवात्र प्रघट्टके मन्त्री । अग्रेऽपि युद्धे शूरस्तेषु तेषु स्थानेषु । 'तृणं शूरस्य जीवितम्' । ईदृशो योधः क्वचिद्विषमे कार्येऽग्रे धृत्वा घात्यते, नैवं वृथा । बहुधा भवतामुपकारी । स किंप्रभुर्यो भृत्यानां द्वित्रान् मन्तून् न सहते । अस्मदादीनामपि मनसि देवस्य कीदृश्याशा भाविनी । इत्यादि दृढं मृदुसारं निगद्य हस्ते कृतो राजा । राजा प्रोवाच-मन्त्रीह धीरां दत्त्वा सन्मान्य समानीयताम् । गतो गुरुस्तत्र । राजोक्तमुक्त्वा नीतो मन्त्री, परं सन्नद्धबद्धः । राज्ञा विविधतदुपकृतिस्मृत्यानयनमनसा पितृवदुपशमितो मन्त्री । मातुला: पादयोर्लगिताः । स मन्त्रिच्छेदितः सिंहहस्तो लोके दर्शितः बहू राजलोकः । यो मन्त्रिदेवगुरुहन्ता तस्य प्राणान् हनिष्यामः, इत्युक्त्वा जिनमतस्य मन्त्रिणश्च गौरवमवीवृधत् श्रीवीसलदेवः । अथ विक्रमादित्यात् १२९८ वर्षं प्राप्तम् । श्रीवस्तुपालो ज्वररुग्लेशेन पीडितः । तेजःपालं सपुत्रपौत्रं स्वपुत्रं च जयन्तसिंहमभाषत । वत्साः श्रीनरचन्द्रसूरिभिर्मलधारिभिः १२८७ वर्षे भाद्रपदवदि १० दिने दिवगमनसमये वयमुक्ताः मन्त्रिन् ! भवतां ११२९८ वर्षे स्वर्गारोहो भविष्यति । तेषां च वचांसि न चलन्ति, गी:सम्पन्नसिद्धित्वात् । ततो वयं श्रीशत्रुञ्जये गमिष्याम एव । गुरुभिषग् युगादीशप्रणिधानं रसायनम् । सर्वभूतदया पथ्यं सन्तु मे भवरुग्भिदे ॥१४॥ लब्धाः श्रियः सुखं स्पृष्टं मुखं दृष्टं तनूरुहाम् । पूजितं दर्शनं जैनं न मृत्योर्भयमस्ति मे ॥१५॥ कुटुम्बेन तन्मतम् ।शत्रुञ्जयगमनसामग्री निष्पन्ना। वीसलदेवो मन्त्रिणा साश्रुलोचनः समापृष्टः । ततो नागडगृहं मन्त्री स्वयमगात् । तेनासनादिभिः सत्कृतो बभाषे । वयं भवान्तरशुद्धये विमलगिरिं प्रति प्रतिष्ठामहे । भवद्भिजैनमुनयोऽमी ऋजवः सम्यग् रक्षणीयाः क्लिष्टलोकात् । गौर्जरात्रमिदं राज्यं वनराजात् प्रभृत्यभूत् । स्थापितं जैनमन्त्रौघैस्तद्वेषी नैव नन्दति ॥९६॥ १. वसन्तविलासकाव्ये सर्ग १४/श्लोक-३७ मध्ये १२९६ वर्षे मन्त्रिणः स्वर्गारोहः कथितः, सः समीचीनो भाति ।। सं० D:\bsnta-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211