Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 180
________________ परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥] [१२१ ततस्तेजःपाल-जयन्तसिंहाभ्यां मन्त्रिदेहस्य शत्रुञ्जयैकदेशे संस्कारः कृतः । संस्कारभूम्यासन्नः स्वर्गारोहणनामा प्रासादो नमिविनमियुतः ऋषभसनाथः कारितः । मन्त्रिण्यौ ललिता-सोखू अनशनेन मम्रतुः । श्रीतेजःपालस्तु अनुपमासहितो मध्यमव्यापारभोगभाक् लेशतस्तथैव दानं तन्वन् १३०८ धामगमत् । शनैः शनैः श्रीजयन्तसिंहोऽपि परलोकमभजत । श्रीअनुपमाऽपि तपसा स्वर्गम-साधयदिति भद्रम् । तयोर्मन्त्रिणोः धर्मस्थानसङ्ख्यां कर्तुं क ईश्वरः, परं गुरुमुखश्रुतं किञ्चि-ल्लिख्यते । लक्षमेकं सपादं जिनबिम्बानां विधापितम् । अष्टादशकोटयः षण्णवतिलक्षाः श्रीशत्रुञ्जयतीर्थे द्रविणं व्ययितम् । द्वादशकोटयोऽशीतिर्लक्षाः श्रीउज्जयन्ते । द्वादशकोट्य-स्त्रिपञ्चाशल्लक्षा अर्बुदगिरिशिखरे लूणिगवसत्याम् । नवशतानि चतुरशीतिश्च पौषधशालाः कारिताः । पञ्चशतानि दन्तमयसिंहासनानाम् । पञ्चशतानि पञ्चोत्तराणि समवसरणानां जादर-मयानाम् । ब्रह्मशालाः सप्तशतानि । सप्तशतानि सत्रागाराणाम् । सप्तशती तपस्विका-पालिकमठानाम् । सर्वेषां भोजननिर्वापादिदानं कृतम् । त्रिंशच्छतानि व्युत्तराणि महेश्वरायतनानाम् । त्रयोदशशतानि चतुरुत्तराणि शिखरबद्धजैनप्रासादानाम् । त्रयोविंशतिशतानि जीर्णचैत्योद्धाराणाम् । अष्टादशकोटिव्ययेन सरस्वतीभाण्डागाराणां त्रयाणां स्थानत्रये करणम् । पञ्चशती ब्राह्मणानां नित्यं वेदपाठं करोति स्म । वर्षमध्ये सङ्घपूजात्रितयम् । पञ्चदशशती श्रमणानां नित्यं गृहे विहरति स्म । तटिककार्पटिकानां सहस्त्रं समधिकं प्रत्येकमभुक्त । त्रयोदश यात्राः सङ्घपतीभूय कारिताः । तत्र प्रथमयात्रायां चत्वारि सहस्राणि पञ्चशतानि शकटानां सशय्यापालकानां, सप्तशती सुखासनानाम् , अष्टादशशती वाहनानाम् , एकोनविंशतिः शतानि श्रीकरीणाम् , एकविंशतिः शतानि श्वेताम्बराणाम् , एकादशशती दिगम्बराणां, चत्वारि शतानि सार्द्धानि जैनगायनानां, त्रयस्त्रिंशच्छती बन्दिजनानाम् । तथा चतुरशीतिस्तडागाः सुबद्धाः । चतुःशती षष्ठ्यधिका वापीनां, पाषाणमयानि द्वात्रिंशदुर्गाणि, दन्तमयजिनरथानां चतुर्विंशतिः, विंशं शतं सागघटितानाम् । सरस्वतीकण्ठा-भरणादीनि चतुर्विंशतिबिरुदानि । चतुःषष्टिर्मसीतयः वस्तुपालस्य । दक्षिणस्यां श्रीपर्वतं यावत् , पश्चिमायां प्रभासं यावत् , उत्तरस्यां केदारपर्वतं यावत् , पूर्वस्यां वाणारसी यावत्तयोः कीर्तनानि । सर्वाग्रेण त्रीणि कोटिशतानि चतुर्दशलक्षा अष्टादशसहस्राणि अष्टशतानि द्रव्यव्ययः । त्रिषष्टिवारान् सङ्ग्रामे जैत्रपदं गृहीतम् । अष्टादश वर्षाणि तयोर्व्यापृतिः । श्रीवस्तुपालतेजःपालयोः प्रबन्धः समाप्तः ॥ प्रशस्ति:- श्रीप्रश्नवाहनकुले कोटिकनामनि गणे जगद्विदिते । श्रीमध्यमशाखायां हर्षपुरीयाभिधे गच्छे ॥१॥ १. अयं धर्मस्थानसङ्ख्यावृत्तान्तो श्रीजिनप्रभसूरि-विरचिततीर्थकल्पे सम्पूर्णोऽस्ति ।। D:\bsnta-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211