________________
११४]
प्रावृट्काले पयोराशिरासीद् गर्जितवर्जितः । सोमेश्वरः पूरयति स्म -
अन्तः सुप्तजगन्नाथनिद्राभङ्गभयादिव ॥७७॥ तुरङ्गमषोडशकमुचितदाने । पुनः कदाचिन्मन्त्रिणोक्तम्'काकः किं वा क्रमेलकः " । सोमेश्वरेण पूरितं पद्यम्
I
[ वसन्तविलासमहाकाव्यम् ॥
येनागच्छन्माख्यातो येनानीतश्च मे पतिः ।
प्रथमं सखि ! कः पूज्यः काकः किं वा क्रमेलकः ॥७८॥ अत्रापि षोडशसहस्त्रद्रम्माणां दत्तिः । एवं लीलास्तस्य ।
एकदा श्रुतमैतिह्यं वृद्धेभ्यः, यथा प्राग्वाटवंशे श्रीविमलो दण्डनायकः नेढ - चाहिलयोभ्राताऽभवत् । स चिरमर्बुदाधिपत्यमभुनक् गूर्जरेश्वरप्रसत्तेः । तस्य विमलस्य विमलमतेर्वाञ्छाद्वयमभूत् पुत्रवाञ्छा प्रासादवाञ्छा च । तत्सिद्ध्यै अम्बामुपवासत्रयेणारराध । प्रत्यक्षीभूय सा प्राह । वत्स ! वाञ्छां ब्रूहि । विमलो जगौ पुत्रेच्छा प्रासादनिष्पत्तीच्छा चार्बुदशृङ्गे मे वर्त्तते । अम्बया प्रोक्तं द्वे प्राप्ती न स्तः, एकां ब्रूहि । ततो विमलेन संसारवृद्धिमात्रफलामसारां पुत्रेच्छां मुक्त्वा प्रासादेच्छैव सफलीकर्तुमिष्टा । अम्बयोक्तं सेत्स्यत्ययं चैत्याभिलाषः परं क्षणं प्रतीक्षस्व, यावताऽहं गिरिवरार्बुदाधिष्ठात्र्याः सख्याः श्रीमातुर्मतं गृह्णामि । विमलो ध्यानेन तस्थौ । श्रीमातृमतं लावा देव्यायाता अभाणच्च ।
पुष्पस्रग्दामरुचिरं दृष्ट्वा गोमयगोमुखम् ।
प्रासादार्हां भुवं विद्याः श्रीमातुर्भवनान्तिके ॥७९॥
तत्तथा दृष्ट्वा चम्पकद्रुमसन्निधौ तीर्थमस्थापयत् । पैत्तिलप्रतिमा महती । विक्रमादित्यात् सहस्त्रोपरि वर्षाणामष्टाशीतौ गतायां चतुर्भिः सूरिभिरादिनाथं प्रत्यतिष्ठिपत् । विमलवसतिरिति प्रासादस्य नाम । तस्मिन् दृष्टे जन्मफलं लभ्यते । एतत्कथाश्रवणान्मन्त्री दध्यौ । वयं चत्वारोऽभूम, द्वौ स्तः, द्वौ तु मालदेव- लूणिगावल्पवयसौ दिवमगाताम् । मालदेवनाम्ना कीर्त्तनानि प्रागप्यकारिषत कियन्त्यपि । लूणिगश्रेयसे तु लूणिगवसतिरर्बुदे काराप्या । एतत्तेजःपालाय प्रकाशितम् । तेन विनीतेन सुतरां मेने । अत तेजः पालो धवलक्ककादर्बुदगिरिभूषणां चन्द्रावतीपुरीमगात् । धारावर्षराणकगृहमगात् । तेनात्यर्थं पूजितः किं कार्यमादिश्यतामित्युक्तं च । मन्त्रिणोक्तम्, अर्बुदग्रे प्रासादं कारयामहे, यदि यूयं सहायाः स्यात । धारावर्षेण भणितं तव सेवकोऽस्मिन् अहं सर्वकार्येषु धुरि योज्यः । ततो राष्ट्रिकगौग्गलिकादयो महादानैर्वशीकृताः, तथा निष्पत्स्यमानचैत्यं करैर्न भारयन्ति । दानेन भूतानि वशीभवन्ति । ततश्चन्द्रावतीमहाजनमुख्यं श्रावकं चाम्पलनामानं गृहे गत्वा आललाप । वयं चैत्यमर्बुदे कारयामो, यदि पूजासान्निध्यं कुरुध्वे । चाम्पलेनापि स्वस्य कुटुम्बान्तराणामपि देवपूजार्थं नित्यधनचिन्ता कृता । ततो मन्त्री आरासणं गत्त्वा चैत्यनिष्पत्तियोग्यं दलवाटकं निरकाशयत् । तद्युग्यै रहकलैश्चार्बुदोपत्यकामानीनयत् । अर्द्धक्रोशार्द्धक्रोशान्तरे हट्टानि । सर्वं लभ्यते, पशूनां नराणां कृच्छ्रं माभूदिति । उम्बरिणीपथेन प्रासादनिष्पत्तियोग्यं दलं द्विगुणमुपरि गिरेः प्रवेशयामास । पुनस्तां पद्यां विषमाञ्चकार, यथा परचक्रस्य प्रवेशो न भवेत् । एवं सिद्धे कर्मणि शोभनदेवं सूत्रधारमाहूय कर्मस्थाये न्ययुङ्क्त । ऊदलाख्यं श्यालमुपरिस्थायिनमकरोत् ।
D:\bsnta-p.pm 5 \ 2nd proof