________________
परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥]
[११३ सम्मुखमागान्मातुः । माता प्रणता पृष्टा च सुखयात्राम् । जरत्या प्रोक्तं कथं न मे भद्रं यस्या ढिल्यां त्वं पुत्रः, गूर्जरधरायां वस्तुपालः । राज्ञा पृष्टं कोऽसौ वस्तुपालः ?। जरत्या वृत्तान्तः प्रोक्तः तद्विनयख्यातिगर्भः । राजाह स किमिति नात्रानीतः । वृद्धा आह आनीतोऽस्ति । दर्शयतां तर्हि । अश्ववारं प्रहित्यानाय्य दर्शितो वस्तुपालः । दत्तोपदा । आलपितश्च राज्ञा अस्मन्माता त्वां स्तौति, किञ्चिद्याचस्व । वस्तुपालेनाभिहितं देव ! गूर्जरधरया सह देवस्य यावज्जीवं सन्धिरस्तु । उपलपञ्चकं मम्माणीखानितो दापय । राज्ञा मतं तत् । फलहीपञ्चकं तु पूनडेन प्रैषि शत्रुञ्जयाद्रौ । तत्रैका ऋषभदेवप्रतिमा १, द्वितीया पुण्डरीकफलही २, तृतीया कपर्दिनः ३, चतुर्थी चक्रेश्वर्याः ४, पञ्चमी तेज:पालप्रासादे पार्श्वप्रतिमा । मन्त्री स्वपुरं गतः, प्रणतः स्वस्वामी । तेन चिरदर्शनोत्कण्ठाविह्वलेन पूर्वमपि कर्णाकर्णिकया श्रुतं ढिल्लीगमनवृत्तान्तं मन्त्रिणं पप्रच्छे । सोऽपि निरवशेषमगर्वपरः प्रचख्यौ । तुष्टो वीरधवलः । दत्ता दशलक्षी हेम्नां प्रसादेन । सा तु गृहादर्वागेव दत्ता । मिलितो मन्त्रिगृहे सर्वो लोकः, सत्कृत्य प्रेषितः । कवयस्तु पठन्ति
श्रीमन्ति दृष्ट्वा द्विजराजमेकं पद्मानि सङ्कोचमहो भजन्ते । समागतेऽपि द्विजराजलक्षे सदा विकाशी तव पाणिपद्मः ॥७३॥ उच्चाटने विद्विषतां रमाणामाकर्षणे स्वामिहृदश्च वश्ये ।
एकोऽपि मन्त्रीश्वर ! वस्तुपाल ! सिद्धस्तव स्फूर्तिमिति मन्त्रः ॥७४॥ एवं स्तूयमान उत्तमत्वाल्लज्जमानो वस्तुपालोऽधो विलोकयामास । ततो महानगरवासिना नानाककविना भणितम्
एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं लज्जानम्रशिराः स्थिरातलमिदं यद्वीक्षसे वेद्मि तत् । वाग्देवीवदनारविन्दतिलक श्रीवस्तुपाल ! ध्रुवं
पातालाद् बलिमुद्दिधीर्घरसकृन्मार्गं भवान् मार्गति ॥७५॥ तदैव कृष्णनगरीयकविकमलादित्येन भङ्ग्यन्तरमुक्तम्
लक्ष्मीं चला त्यागफलां चकार यां साऽर्थिश्रिता कीर्तिमसूत नन्दिनीम् ।
साऽपीच्छया क्रीडति विष्टपाग्रतस्तद्वार्तयाऽसौ त्रपते यतो महान् ॥७६॥ अथ कदाचन मन्त्रिणा श्रुतं यथा रैवतकासन्नं गच्छतां लोकानां पार्श्वतो भरडकाः पूर्वनरेन्द्रदत्तं करमुद्ग्राहयन्ति । पोट्टलकेभ्यः कणमाणकं, कूपकात् कर्षः । एवमुपद्रूयते लोकः । तत आयतिदर्शिना सचिवेन ते भरडकाः कुहाडीयानामानं ग्रामं दत्वा तं करमुद्ग्राहयन्तो निषिद्धाः । अङ्केवालियाख्यो ग्रामस्तु ऋषभनेमियात्रिकाणां क्षीणधनानां स्वगृहाभियोग्यपाथेयद्रम्मपदे दत्तः । शत्रुञ्जयरैवतोपत्यकानगरयोः सुखासनानि कृत्वा मुक्तानि । अन्धज्वरितानां यात्रिकाणां तीर्थारोहणार्थं तद्युग्यनराणां तु ग्रासपदे शालिक्षेत्राणि प्रतिष्ठितानि । तीर्थेषु सर्वेषु देवेभ्यो रत्नखचितानि हैमभूषणानि । विदेशायातसूरिशुश्रूषार्थं सर्वदेशग्रामण्यो नियुक्ताः । लौकिकतीर्थकरणमपि तस्य स्वामिरञ्जनार्थं, न भक्त्या सम्यग्दृष्टित्वात् ।
एकदा मन्त्री धवलक्ककात् स्तम्भपुरं गतः । तत्र यानपात्रात्तुरङ्गा उत्तरन्तः सन्ति । तदा सोमेश्वरकवीन्द्र आसन्नः । मन्त्रिणा समस्या दत्ता
D:\bsnta-p.pm5\2nd proof