________________
११२]
[ वसन्तविलासमहाकाव्यम् ॥
चरणक्षालनं तिलकरचनां च श्रीवस्तुपालः स्वहस्तेन करोति । एवं लग्ना द्विप्रहरी, मन्त्री तु तथैवानिर्विण्णः । तदा तेजःपालेन विज्ञप्तमन्येरपि देव ! वयं सङ्घपादक्षालनादि कारयिष्यामः, यूयं भुङ्ग्ध्वम्, तापो भावी । मन्त्रिनरेन्द्रेणोक्तं मैवं वदत, पुण्यैरयं वासरो लभ्यते । गुरु कथापितम्
यस्मिन् कुले यः पुरुषः प्रधानः स एव यत्नेन हि रक्षणीयः ।
तस्मिन् विनष्टे हि कुलं विनष्टं न नाभिभङ्गे त्वरका वहन्ति ॥७१॥
तस्माद्भोक्तव्यं भवद्भिः, तापो माभूत् । मन्त्री पत्नीं गुरुभ्यो विज्ञपयितुं प्रैषीत् । तत्र काव्यम्अद्य मे फलवती पितुराशा मातुराशिषि शिखाङ्करिताऽद्य । यद्युगादिजिनयात्रिकलोकं पूजयाम्यहमशेषमखिन्नः ॥७२॥
भोजयता मन्त्रिणा नागपुरीयाणामेकपङ्क्तित्वं दृष्ट्वा शिरो धूनितम् । अहो शुद्धा लोका एते । एवं भोजयित्वा परिधाप्य च रञ्चितो नागपुरसङ्घः । गतौ वस्तुपाल - पूनडौ शत्रुञ्जयं ससौ, वदन्ति ऋषभः । एकदा स्नात्रे सति देवार्चको देवस्य नासां पिधत्ते पुष्पैः किल कलशेन नासा मापीडीत्याशयतः । तदा मन्त्रिणा चिन्तितं कदाचिद्देवाधिदेवस्य कलशादिना परचक्रेणापि वाऽवक्तव्यममङ्गलं भवेत् । तदा का गतिः सङ्घस्येति चिन्तयित्वा पूनड आलेपे, भ्रातः सङ्कल्पोऽयमेवं संवृत्तो मे यदि बिम्बान्तरं मम्माणीमयं क्रियते तदा सुन्दरतरम् । तत्तु सुरत्राणमोजदीनमित्रे त्वयि यतमाने स्यान्नान्यथा । पूनडेनोक्तम्-तत्र गतैश्चिन्तयिष्यते । इत्यादि वदन्तौ रैवतादितीर्थानि वन्दित्वा व्यावृत्तौ । गतः पूनडो नागपुरम् । मन्त्री धवलक्कके राज्यं शास्ति । एवं स्थितेऽन्येद्युः सुरत्राणमोजदीनमाता वृद्धा हजयात्राप्रार्थिनी स्तम्भपुरमागता । नौवित्तकगृहेऽतिथित्वेनास्थात् । सा समागता सचिवेन चरेभ्यो ज्ञाता । चराः प्रोक्ता मन्त्रिणा । रे यदेयं जलपथेन याति तदा मे ज्ञाप्या । गच्छन्ती ज्ञापिता तैः । मन्त्रिणा निजकौलिकान् प्रेष्य तस्याः सर्वं कोटीबकस्थं वस्तु ग्राहितम्, सुष्ठ रक्षापितं च क्वचित् । तदा नौवित्तकैः पूत्कृतमुपमन्त्रि देव ! जरत्येकाऽस्मद्यूथ्या हजयात्रायै गच्छन्ती त्वत्पदे तस्करैर्लुण्ठिता । मन्त्रिणा पृष्टं का सा जरती । तैरुक्तम्-देव ! किं पृच्छसि सा मोजदीनमाता पूज्या । मन्त्रिणा भणितं मायया अरे वस्तु विलोकयत । आनीयार्पितं सर्वम् । जरती तु स्वगृहे आनिन्ये । विविधां भक्तिं कृत्वा पृष्टा च किं हजयात्रेच्छा वः । तयोक्तं ओमिति । तर्हि दिनकतिपयान् प्रतीक्षध्वम् । प्रतीक्षाञ्चक्रे सा । तावतारासणाश्मीयं तोरणं घटापितं, मेलयित्वा विलोकितम् । पुनर्विघटितं सूत्रेण बद्धम् । सूत्रधाराः सह प्रगुणिताः । मन्त्रिणश्च मार्गश्चान्तरे त्रिविधोऽस्ति एको जलमार्गः, अपरः करभगम्यः, इतरस्तु अश्वलङ्घ्यः । यत्र ये राजानो योऽध्वा यथा लङ्घ्यते तथा सूत्रं कृतम् । राज्ञामुपदायै द्रव्याणि प्रगुणीकृतानि । एवं सामग्र्या सा प्रहिता तत्र । रचितं तोरणं मसीतिद्वारे । तत्र दीपतैलादिपूजाचिन्ता तद्राजपार्श्वात् शाश्वती कारिता । दत्तं भूरि भूरि तत्र । उदभूद्भूरि यश: । व्यावृत्ता जरती । आनीता स्तम्भनपुरम् । प्रवेशमहः कारितः । स्वयं तदङ्घ्रिक्षालनम् । एवं भक्त्या दिनदशकं स्थापिता । तावता धवलकिशोरशतपञ्चकमन्यदपि दुकूलगन्धराजकर्पूरादि गृहीतम् । वृद्धा प्रोक्ता मातश्चलसि यद्यादिशसि । तत्र मानं च दापयसे तदाहमपि आगच्छामि । तया भणितं तत्राहमेव प्रभुः स्वैरमेहि पूजा ते तत्र । श्रीवीरधवलानुमत्या चलितो मन्त्रिमहेन्द्रः । गतो ढिल्लीतटम् । राजमातृवचनात् कोशद्वये तस्थौ । सुरत्राणः
D:\bsnta-p.pm5\ 2nd proof