________________
परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥]
[१११ अथ वस्तुपालः श्रीवीरधवलपार्वे सेवां विधत्ते, देशः स्वस्थः, धर्मो वर्त्तते । एवं सति एकदा ढिल्लीनगरादेत्य चरपुरुषैः श्रीवस्तुपालो विज्ञप्तः । देव ! ढिल्लीतः श्रीमोजदीनसुरत्राणस्य सैन्यं पश्चिमां दिशमुद्दिश्य चलितं चत्वारि प्रयाणानि व्यूढं, तस्मात् सावधानैः स्थेयम् । मन्येऽर्बुददिशा गूर्जरधरां प्रवेष्टा । मन्त्रिणा सत्कृत्य ते चरा राणकपाशा नीताः, कथितः स प्रबन्धः । ततो राणकेनाप्यभाणि वस्तुपाल । म्लेच्छर्गर्दभिल्लो गर्दभीविद्यासिद्धोऽप्यभिभूतः । नित्यं सूर्यबिम्बनिर्युत्तुरङ्गमकृतराजपाटीकः शिलादित्योऽपि पीडितः । सप्तशतयोजनभूमिनाथो जयन्तचन्द्रोऽपि क्षय गतः । विंशतिवारबद्धरुद्धसहावदीनसुरत्राणमोक्ता पृथ्वीराजोऽपि बद्धः । तस्माद्दुर्जया अमी । किं कर्ताऽसि ? । वस्तुपाल उवाच स्वामिन् ! प्रेषय मां यदुचितं तत्करिष्यामि । ततः साराश्वलक्षण चलितो मन्त्री तृतीये प्रयाणे महणकदेवी कर्पूरादिमहापूजापूर्वं सस्मार । सा तद्भाग्यात् प्रत्यक्षीभूयोवाच वत्स ! मा भैषीः । अबुबुंदादिशा यवनाः प्रवेक्ष्यन्ते । तव देशं यदा अमी प्रविशन्ति, तदैव लङ्किता घट्टिकाः स्वराजन्य रोधयेथाः । आवासान् यत्र गृह्णन्ति, तत्र स्थिरचित्तः ससैन्यो युद्धाय सरभसं ढौकेथाः । जयश्री: करपञ्जरे एव । इदं श्रुत्वा धारावर्षायार्बुदगिरिनायकाय स्वसेवकाय नरान् प्रेषयत् , अकथापयच्च म्लेच्छसैन्यमबुंदमध्ये भूत्वा आजिगमिषदास्ते । त्वं तानागच्छतो मुक्त्वा पश्चाद्धण्टिका रुन्ध्याः । तेन तथैव कृतम् । प्रविष्टा यवनाः यावदावासान् गृहीष्यन्ति तावत्पतितो वस्तुपालः कालः । हन्यन्ते यवनाः । उच्छलितो बुम्बारवः । केचिद्दन्ताङ्गलीर्गृह्णन्ति, अपरे तोवां कुर्वन्ति, न तु छुट्टन्ति । एवं तान् हत्वा तच्छीर्षलक्षैः शकटानि भत्वा धवलक्ककमेत्य मन्त्री स्वस्वामिनमदर्शयत् । श्लाघितश्च तेनायं
न ध्वानं तनुषे न यासि विकटं नोच्चैर्वहस्याननं दर्पान्नो लिखसि क्षितिं खुरपुटै वज्ञया वीक्षसे । किन्तु स्वं वसुधातलैकधवल ! स्कन्धाधिरूढे भरे
तीर्थान्युच्चतटीविटङ्कविषमाण्युल्लङ्घयन् लक्ष्यसे ॥७०॥ ततः परिधापितः विसृष्टः स्वगृहाय । तत्र मङ्गलकरणाय लोकागमः । द्रम्मेण पुष्पं लभ्यते । एवं पुष्पस्स्रक्व्ययो लोकैः कृतः ।
इतश्च नागपुरे साधुदेलासुतः साधुपूनडः श्रीमोजदीनसुरत्राणपत्नीबीबीप्रतिपन्नबान्धवोऽश्वपतिगजपतिनरपतिमान्यो विजयते । तेन प्रथमं शत्रुञ्जये यात्रा त्रिसप्तत्यधिकद्वादशशतवर्षे बब्बेरपुराद्विहिता । द्वितीया सुरत्राणादेशात् , षडशीत्यधिकद्वादशशतसङ्ख्यवर्षे नागपुरात् कर्तुमारब्धा । अष्टादशशतानि शकटानि बहवो महीधराः । कुमारनेनासहितो माण्डव्यपुरं यावदायातः । ततः सम्मुखमागत्य महन्तकतेज:पालेन धवलक्ककमानीतः । श्रीवस्तुपालः सम्मुखमागमत् । सङ्घस्य धूली पवनानुकूल्याद्यां दिशमनु धावति, मन्त्री तत्र गच्छति । तटस्थैर्भणितं, मन्त्रीश ! इतो रजः, इतो रजः । इतो पादोऽवधार्यताम् । ततः सचिवेन बभणे । इदं रजःस्प्रष्टुं पुण्यैर्लभ्यतेऽनेन रजसा स्पृष्टेन वृजिनरजांसि दूरे नश्यन्ति । ततः सङ्घपतिपूनडमन्त्रिणोर्गाढालिङ्गनप्रियालापौ संवृत्तौ । सरस्तीरे स्थितः पूनडः कुलगुरुमलधारिश्रीनरचन्द्रसूरिपादान् ववन्दे । रात्रौ वस्तुपालेन कथापितं पूनडाय पुण्यात्मने । प्रातः सर्वसङ्घनास्मद्वसत्यतिथिना युष्मता च भवितव्यम् । धूमो न कार्यः । पूनडेन तथेत्यादृतम् । रात्रौ मण्डपो द्विद्वारो रसवतीप्रकाराश्च सर्वं निष्पन्नम् । प्रातरायान्ति नागपुरीयाः । सर्वेषां
D:\bsnta-p.pm5\2nd proof