________________
परिशिष्टम् [ १ ] श्रीवस्तुपालप्रबन्धः ॥ ]
[ ११५
अर्थव्यये स्वैरितां समादिशत् । एवं सूत्रं कृत्वा तेजःपालो धवलक्ककमागात् । निष्पद्यते प्रासादः । श्रीनेमिबिम्बं कषोपलमयं घट्यते । सूत्रधाराणां सप्तशती घटयति घाटम् । ते तु दुःशीलाः पुरः पुरोऽर्थं गृह्णन्ति, कार्यकाले पुनर्याचन्ते । तत ऊदलो मन्त्री तेजःपालाय लिखति, वदति देव ! द्रम्मा विनश्यन्ति, सूत्रधाराः कर्मस्थायात् प्रथमं प्रथमं गृह्णन्ति । ततस्तेजः पालेन कथापितं द्रम्मा विनष्टा इति किं बूषे । विनष्टाः किं कुथिताः ? । न तावत् कुथिताः किन्तु मनुष्याणामुपकृताः । उपकृताश्चेद्विनष्टाः कथं, माता मे वन्ध्येतिवाक्यवत् परस्परं विरुद्धं बूषे । तस्मात्तत्त्वमिदं सूत्रधाराणामिच्छाच्छेदो न कार्यः, देयमेवेति । ततो दत्तो ऊदलः । तावन्निष्पन्नं गर्भगृहम् । मध्ये श्रीनेमिनाथबिम्बं स्थापितम् । एतच्च कृतं श्रीतेजःपालाय विज्ञप्तम् । तुष्टौ द्वौ मन्त्रिणौ । श्रीवस्तुपालादेशात् तेजः पालोऽनुपमया सहानल्पपरिच्छदोऽर्बुदगिरिं प्राप्तः । प्रासादं निष्पन्नप्रायं ददर्श तुतोष । स्नात्वा सद्वस्त्रप्रवरणः सपत्नीको मन्त्री श्रीनेमिनं पूजयति स्म । अथ ध्यानेनोर्ध्वस्तस्थौ चिरम् । क्षणार्द्धेनानुपमा पतिं तथास्थं मुक्त्वा प्रासादनिष्पत्तिकुतूहलेन बहिरागात् । तत्र सूत्रधारशोभनदेवो मण्डपचतुःस्तम्भीमूर्ध्वयितुमुपक्रमते । मन्त्रिण्योक्तं सूत्रधार ! मम पश्यन्त्याश्चिरं बभूव, अद्यापि स्तम्भा नोत्तभ्यन्ते । शोभनदेवेनोक्तं स्वामिनि ! गिरिपरिसरोऽयं, शीतं स्फीतं, प्रातर्घटनं विषमं, मध्याह्नेोद्देशे तु गृहाय गम्यते स्नायते भुज्यते एवं विलम्बः स्यात् । अथवा विलम्बात् किं भयम् । श्रीमन्त्रिपादाश्चिरं राज्यमुपभुञ्जानाः सन्तीह तावत् । ततोऽनुपमया जगदे । सूत्रधार ! चाटुमात्रमिदम् । कोऽपि क्षणः कीदृग् भवेत् को वेत्ति । सूत्रधारो मौनेनातिष्ठत् । पत्नीवचनमाकर्ण्य सचिवेन्द्रो बहिर्निःसृत्य सूत्रधारमवोचत् । अनुपमा किं वावदीति । सूत्रधारो व्याहार्षीत् यद्देवेनावधारितम् । मन्त्री दयितामाह किं त्वयोक्तम् ? । अनुपमाह वदन्त्यस्मि कालस्य को विश्वासः, काऽपि कालकला कीदृशी भवति । न सर्वदा तेजः पुरुषाणाम् । तथा
श्रियो वा तस्य नाशो वा येनावश्यं विनश्यति । श्रीसम्बन्धे बुधाः स्थैर्यबुद्धिं बध्नन्ति तत्र किम् ॥८०॥ वृद्धानाराधयन्तोऽपि तर्पयन्तोऽपि पूर्वजान् । पश्यन्तोऽपि गतश्रीकानहो मुह्यन्ति जन्तवः ॥ ८१ ॥
भूपभ्रूपल्लवप्रान्तनिरालम्बविलम्बिनीम् ।
स्थेयसीं बत मन्यन्ते सेवकाः स्वामपि श्रियम् ॥८२॥
इतो विपदितो मृत्युरितो जनिरितो जरा ।
जन्तवो हन्त पीड्यन्ते चतुर्भिरपि सन्ततम् ॥८३॥
एतद्वचः श्रुत्वा मन्त्रिवरः प्राह अयि कमलदलदीर्घलोचने ! त्वां विना कोऽन्य एवं वक्तुं
जानाति
ताम्रपर्णीतटोत्पन्नैर्मोक्तिकैरिक्षुकुक्षिजैः ।
बद्धस्पर्धभरा वर्णाः प्रसन्ना: स्वादवस्तव ॥८४॥
गृहचिन्ताभरहरणं मतिवितरणमखिलपात्रसत्करणम् । किं किं न फलति कृतिनां गृहिणी गृहकल्पवल्लीव ॥८५॥
D:\bsnta-p.pm5 \ 2nd proof