________________
११६]
[वसन्तविलासमहाकाव्यम् ॥ राज्यस्वामिनि ! वद केनोपायेन शीघ्रं प्रासादा निष्यत्स्यन्ते । देव्याह नाथ ! रात्रीयसूत्रधाराः पृथक् दैनीयसूत्रधाराः पृथक् व्यवस्थाप्यन्ते । कटाहिश्चटाप्यते, अमृतानि भोज्यन्ते सूत्रधारणां च विश्रामलाभाद्रोगो न भवति । एवं चैत्यसिद्धिः शीघ्रा । आयुर्यात्येव श्रीरस्थिरेव ।
अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥८६॥ इति सरस्वतीवीणाक्वणितकोमलया गिरा उक्त्वा निवृत्ता सुलक्षणा सा । मन्त्रिणा सर्वदेशकर्मस्थायेषु सैव रीतिः प्रारब्धा । निष्पन्न च सर्वम् । गतो मन्त्री धवलक्ककम् । दिनैः कतिपयैर्वर्द्धापनिकानर आगतः । देव ! अर्बुदाद्रौ नेमिचैत्यं निष्पन्नम् । हृष्टौ द्वौ बान्धवौ । गतो ससङ्घौ तत्र । तत्र च जाबालिपुरात् श्रीयशोवीरो नाम भाण्डागारिकः सरस्वतीकण्ठभूषणत्वेन ख्यातः आहूत आगात् । मिलिता वस्तुपाल-तेजःपाल-यशोवीरा एकत्र न्यायविक्रमविनया इव साक्षात् । चतुरशीति राणाः, द्वादश मण्डलीकाः, चत्वारो महाधराः, चतुरशीतिर्महाजनाः, एवं सभा। तदा वस्तुपालेन यशोवीरः प्रोचे भाण्डागारिक ! त्वमुदयसिंहस्य मन्त्री, यौगन्धरायण इव वत्सराजस्य । तव स्तुती: स्वस्थानस्थाः शृणुमः । यथा
बिन्दवः श्रीयशोवीर ! मध्यशून्या निरर्थकाः । सङ्ख्यावन्तो विधीयन्ते त्वयैकेन पुरस्कृताः ॥८७॥ यशोवीर ! लिखत्याख्यां यावच्चन्द्रे विधिस्तव ।
न माति भुवने तावदाद्यमप्यक्षरद्वयम् ॥८८॥ अत एव नः सदा भवद्दर्शनरणरणकाक्रान्तमेव स्वान्तमासीत् । इदानीं चारु सम्पन्नं भवदीयसाङ्गत्यं, तदपि विशेषतः श्रीनेमिदृष्टौ । ततो यशोवीरो व्याहरति
श्रीमत्कर्णपरम्परागतभवत्कल्याणकीर्तिश्रुतेः प्रीतानां भवदीयदर्शनविधौ नास्माकमुत्कं मनः । श्रुत्यप्रत्ययिनी सदा ऋजुतया स्वालोकविरम्भिणी
दाक्षिण्यैकनिधान ! केवलमियं दृष्टिः समुत्कण्ठते ॥८९॥ इत्याद्याः सङ्कथाः पप्रथिरे । प्रासादबिम्बप्रतिष्ठोत्सवाः संवृत्ताः । श्रीवस्तुपालेनैकदा चैत्यस्य दूषणभूषणे पृष्टो यशोवीरः प्रोचे । देव ! शोभनदेवः सूत्रधारः शोभनः । ततो युक्तमेतदम्बा कीर्तिस्तम्भोपरिस्थिता एकामङ्गलीमू/कृत्य स्थिता घटिता । परमः प्रासादः । परं दोषा अपि सन्ति । प्रासादापेक्षया सोपानानि ह्रस्वानि । स्तम्भे बिम्बानि आशातनाभाजनं स्युः । द्वारप्रवेशे व्याघ्ररूपाणि पूजाऽल्पत्वाय स्युः । जिनपृष्ठे पूर्वजरोपणा पाश्चात्यानामृद्धिनाशिनी । आकाशे जैनमूर्तिरोपणा त्वत्परं दर्शनपूजनाल्पत्वाय । इत्यादि श्रुत्वा सत्यं मत्वा न चुकोप, भवितव्यतां चाप्रतिकारां निश्चिक्ये । विविधदानैविक्रमादित्य इव प्रकाश्य महिमानं, विसृज्य स्वस्थाने लोकं, सपरिजनो धवलक्ककं गत्वा सुखं तस्थौ ।
इतश्च श्रीवीरधवलस्य द्वौ पुत्रौ स्तः । एको वीरमः, द्वितीयो वीसलः । तत्र वीरमो यौवनस्थः
D:\bsnta-p.pm5\2nd proof