Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 165
________________ १०६] [वसन्तविलासमहाकाव्यम् ॥ राष्ट्रान्तराणि करदानि । यद्यादेशः स्यात् तदा राज्याभिषेकोत्सवः क्रियते । राणकेनोक्तम्-मन्त्रिणौ ऋजू भक्तिजडौ। अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः । अदत्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ? ॥४६॥ अतो राणकत्वमेवास्तु । इत्युक्त्वा व्यसृजत् तौ । एकदा मन्त्रिभ्यां श्रीसोमेश्वरादिकविभ्यो विपुला वृत्तिः कृता भूम्यादिदानैः । ततः पठितं सोमेश्वरेण सूत्रे वृत्तिः कृता पूर्वं दुर्गसिंहेन धीमता । विसूत्रे तु कृता तेषां वस्तुपालेन मन्त्रिणा ॥४७॥ श्रीवीरधवलोऽपि सेवकान् सुष्ठ पदवीमारोपयन् जगत्प्रियोऽभूत् । किमुच्यते तस्य ? पश्यत ! पश्यत ! । श्रीवीरधवलो ग्रीष्मे चन्द्रशालायां सुप्तोऽस्ति, वण्ठश्चरणौ चम्पयत्येकः । पटीपिहितवदनो जाग्रदपि वण्ठेन सुप्तो मेने । ततश्चरणालिस्था रत्नाङ्कमुद्रा जगृहे, मुखे च चिक्षिपे । राणकेन किमपि नोक्तम् । उत्थितो राणः । भाण्डागारिकपार्थाद् गृहीत्वाऽन्या मुद्रा तादृगेव पादाङ्गलौ स्थापिता । द्वितीयदिने पुना राणस्तत्रैव चन्द्रशालायां प्रसुप्तः । वण्ठश्चरणौ चम्पयति । राण: पटीस्थगितवदनोऽस्ति । वण्ठः पुनः पुनर्मुद्रामालोकते । अहो प्राक्तनीवेयं । ततो राणकः प्राह-भोम् वण्ठ ! इमां मुद्रां मा ग्रही:, या कल्ये गृहीता सा गृहीता । तद्वचनाकर्णन एव वण्ठो भीत्या वज्राहत इवास्थात् । यतः हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः । स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ॥४८॥ तां तस्य दीनतां दृष्ट्वा राणेन भणितं वत्स ! मा भैषीः । अस्माकमेवायं कार्पण्यदोषो येन तेऽल्या वृत्तिः । इच्छा न पूर्यते, ततो बह्वपाये चौर्यबुद्धिः । अतःपरं हय आरोहाय दीयमानोऽस्ति लक्षार्थं वृत्तौ । इत्याश्वासितः सः । अतो वीरधवलः क्षमापरत्वाज्जगद्वल्लभः सेवकसदाफलत्वेन पप्रथे। स सहजदयार्द्र इति मन्त्रिभ्यां रहःकथान्तरे शान्तपर्वणि द्वैपायनोक्तभीष्मयुधिष्ठिरोपदेशद्वारायातं द्वैपायनोक्तं द्वात्रिंशदधिकारमयेतिहासशास्त्रीयाऽष्टाविंशाधिकारस्थं च शिवपुराणमध्यगतं च मांसपरिहारं व्याख्याय व्याख्याय प्रायो मांसमद्यमृगयाविमुखः कृतः । मलधारिश्रीदेवप्रभसूरिसविधे व्याख्यां श्रावंश्रावं सविशेषं तेन तत्त्वपरिमिलितमतिः कृतः । अन्येधुर्वस्तुपालो ब्राह्म मुहूर्ते विमृशति । यद्यहंद्यात्रा विस्तरेण क्रियते तदा श्रीः फलवती।। वञ्चयित्वा जनानेतान् सुकृतं गृह्यते श्रिया । तत्ततो गृह्यते येन स तु धूर्तधुरन्धरः ॥४९॥ नृपव्यापारपापेभ्यः सुकृतं स्वीकृतं न यैः । तान् धूलिधावकेभ्योऽपि मन्ये मूढतरान् नरान् ॥५०॥ इत्यादि विमृश्य तेजःपालेन नित्यभक्तेन साम्मत्यं कृत्वा मलधारिश्रीनरचन्द्रसूरिपादानपृच्छत् । भगवन् या मे चिन्ताऽधुना सा निष्प्रत्यूहं सेत्स्यति । प्रभुभिः शास्त्रकिरीटैरुक्तम्-जिनयात्राचिन्ता D:\bsnta-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211