Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 170
________________ परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥] [१११ अथ वस्तुपालः श्रीवीरधवलपार्वे सेवां विधत्ते, देशः स्वस्थः, धर्मो वर्त्तते । एवं सति एकदा ढिल्लीनगरादेत्य चरपुरुषैः श्रीवस्तुपालो विज्ञप्तः । देव ! ढिल्लीतः श्रीमोजदीनसुरत्राणस्य सैन्यं पश्चिमां दिशमुद्दिश्य चलितं चत्वारि प्रयाणानि व्यूढं, तस्मात् सावधानैः स्थेयम् । मन्येऽर्बुददिशा गूर्जरधरां प्रवेष्टा । मन्त्रिणा सत्कृत्य ते चरा राणकपाशा नीताः, कथितः स प्रबन्धः । ततो राणकेनाप्यभाणि वस्तुपाल । म्लेच्छर्गर्दभिल्लो गर्दभीविद्यासिद्धोऽप्यभिभूतः । नित्यं सूर्यबिम्बनिर्युत्तुरङ्गमकृतराजपाटीकः शिलादित्योऽपि पीडितः । सप्तशतयोजनभूमिनाथो जयन्तचन्द्रोऽपि क्षय गतः । विंशतिवारबद्धरुद्धसहावदीनसुरत्राणमोक्ता पृथ्वीराजोऽपि बद्धः । तस्माद्दुर्जया अमी । किं कर्ताऽसि ? । वस्तुपाल उवाच स्वामिन् ! प्रेषय मां यदुचितं तत्करिष्यामि । ततः साराश्वलक्षण चलितो मन्त्री तृतीये प्रयाणे महणकदेवी कर्पूरादिमहापूजापूर्वं सस्मार । सा तद्भाग्यात् प्रत्यक्षीभूयोवाच वत्स ! मा भैषीः । अबुबुंदादिशा यवनाः प्रवेक्ष्यन्ते । तव देशं यदा अमी प्रविशन्ति, तदैव लङ्किता घट्टिकाः स्वराजन्य रोधयेथाः । आवासान् यत्र गृह्णन्ति, तत्र स्थिरचित्तः ससैन्यो युद्धाय सरभसं ढौकेथाः । जयश्री: करपञ्जरे एव । इदं श्रुत्वा धारावर्षायार्बुदगिरिनायकाय स्वसेवकाय नरान् प्रेषयत् , अकथापयच्च म्लेच्छसैन्यमबुंदमध्ये भूत्वा आजिगमिषदास्ते । त्वं तानागच्छतो मुक्त्वा पश्चाद्धण्टिका रुन्ध्याः । तेन तथैव कृतम् । प्रविष्टा यवनाः यावदावासान् गृहीष्यन्ति तावत्पतितो वस्तुपालः कालः । हन्यन्ते यवनाः । उच्छलितो बुम्बारवः । केचिद्दन्ताङ्गलीर्गृह्णन्ति, अपरे तोवां कुर्वन्ति, न तु छुट्टन्ति । एवं तान् हत्वा तच्छीर्षलक्षैः शकटानि भत्वा धवलक्ककमेत्य मन्त्री स्वस्वामिनमदर्शयत् । श्लाघितश्च तेनायं न ध्वानं तनुषे न यासि विकटं नोच्चैर्वहस्याननं दर्पान्नो लिखसि क्षितिं खुरपुटै वज्ञया वीक्षसे । किन्तु स्वं वसुधातलैकधवल ! स्कन्धाधिरूढे भरे तीर्थान्युच्चतटीविटङ्कविषमाण्युल्लङ्घयन् लक्ष्यसे ॥७०॥ ततः परिधापितः विसृष्टः स्वगृहाय । तत्र मङ्गलकरणाय लोकागमः । द्रम्मेण पुष्पं लभ्यते । एवं पुष्पस्स्रक्व्ययो लोकैः कृतः । इतश्च नागपुरे साधुदेलासुतः साधुपूनडः श्रीमोजदीनसुरत्राणपत्नीबीबीप्रतिपन्नबान्धवोऽश्वपतिगजपतिनरपतिमान्यो विजयते । तेन प्रथमं शत्रुञ्जये यात्रा त्रिसप्तत्यधिकद्वादशशतवर्षे बब्बेरपुराद्विहिता । द्वितीया सुरत्राणादेशात् , षडशीत्यधिकद्वादशशतसङ्ख्यवर्षे नागपुरात् कर्तुमारब्धा । अष्टादशशतानि शकटानि बहवो महीधराः । कुमारनेनासहितो माण्डव्यपुरं यावदायातः । ततः सम्मुखमागत्य महन्तकतेज:पालेन धवलक्ककमानीतः । श्रीवस्तुपालः सम्मुखमागमत् । सङ्घस्य धूली पवनानुकूल्याद्यां दिशमनु धावति, मन्त्री तत्र गच्छति । तटस्थैर्भणितं, मन्त्रीश ! इतो रजः, इतो रजः । इतो पादोऽवधार्यताम् । ततः सचिवेन बभणे । इदं रजःस्प्रष्टुं पुण्यैर्लभ्यतेऽनेन रजसा स्पृष्टेन वृजिनरजांसि दूरे नश्यन्ति । ततः सङ्घपतिपूनडमन्त्रिणोर्गाढालिङ्गनप्रियालापौ संवृत्तौ । सरस्तीरे स्थितः पूनडः कुलगुरुमलधारिश्रीनरचन्द्रसूरिपादान् ववन्दे । रात्रौ वस्तुपालेन कथापितं पूनडाय पुण्यात्मने । प्रातः सर्वसङ्घनास्मद्वसत्यतिथिना युष्मता च भवितव्यम् । धूमो न कार्यः । पूनडेन तथेत्यादृतम् । रात्रौ मण्डपो द्विद्वारो रसवतीप्रकाराश्च सर्वं निष्पन्नम् । प्रातरायान्ति नागपुरीयाः । सर्वेषां D:\bsnta-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211