________________
१०६]
[वसन्तविलासमहाकाव्यम् ॥ राष्ट्रान्तराणि करदानि । यद्यादेशः स्यात् तदा राज्याभिषेकोत्सवः क्रियते । राणकेनोक्तम्-मन्त्रिणौ ऋजू भक्तिजडौ।
अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः । अदत्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ? ॥४६॥
अतो राणकत्वमेवास्तु । इत्युक्त्वा व्यसृजत् तौ । एकदा मन्त्रिभ्यां श्रीसोमेश्वरादिकविभ्यो विपुला वृत्तिः कृता भूम्यादिदानैः । ततः पठितं सोमेश्वरेण
सूत्रे वृत्तिः कृता पूर्वं दुर्गसिंहेन धीमता ।
विसूत्रे तु कृता तेषां वस्तुपालेन मन्त्रिणा ॥४७॥ श्रीवीरधवलोऽपि सेवकान् सुष्ठ पदवीमारोपयन् जगत्प्रियोऽभूत् । किमुच्यते तस्य ? पश्यत ! पश्यत ! । श्रीवीरधवलो ग्रीष्मे चन्द्रशालायां सुप्तोऽस्ति, वण्ठश्चरणौ चम्पयत्येकः । पटीपिहितवदनो जाग्रदपि वण्ठेन सुप्तो मेने । ततश्चरणालिस्था रत्नाङ्कमुद्रा जगृहे, मुखे च चिक्षिपे । राणकेन किमपि नोक्तम् । उत्थितो राणः । भाण्डागारिकपार्थाद् गृहीत्वाऽन्या मुद्रा तादृगेव पादाङ्गलौ स्थापिता । द्वितीयदिने पुना राणस्तत्रैव चन्द्रशालायां प्रसुप्तः । वण्ठश्चरणौ चम्पयति । राण: पटीस्थगितवदनोऽस्ति । वण्ठः पुनः पुनर्मुद्रामालोकते । अहो प्राक्तनीवेयं । ततो राणकः प्राह-भोम् वण्ठ ! इमां मुद्रां मा ग्रही:, या कल्ये गृहीता सा गृहीता । तद्वचनाकर्णन एव वण्ठो भीत्या वज्राहत इवास्थात् । यतः
हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ।
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ॥४८॥ तां तस्य दीनतां दृष्ट्वा राणेन भणितं वत्स ! मा भैषीः । अस्माकमेवायं कार्पण्यदोषो येन तेऽल्या वृत्तिः । इच्छा न पूर्यते, ततो बह्वपाये चौर्यबुद्धिः । अतःपरं हय आरोहाय दीयमानोऽस्ति लक्षार्थं वृत्तौ । इत्याश्वासितः सः । अतो वीरधवलः क्षमापरत्वाज्जगद्वल्लभः सेवकसदाफलत्वेन पप्रथे। स सहजदयार्द्र इति मन्त्रिभ्यां रहःकथान्तरे शान्तपर्वणि द्वैपायनोक्तभीष्मयुधिष्ठिरोपदेशद्वारायातं द्वैपायनोक्तं द्वात्रिंशदधिकारमयेतिहासशास्त्रीयाऽष्टाविंशाधिकारस्थं च शिवपुराणमध्यगतं च मांसपरिहारं व्याख्याय व्याख्याय प्रायो मांसमद्यमृगयाविमुखः कृतः । मलधारिश्रीदेवप्रभसूरिसविधे व्याख्यां श्रावंश्रावं सविशेषं तेन तत्त्वपरिमिलितमतिः कृतः । अन्येधुर्वस्तुपालो ब्राह्म मुहूर्ते विमृशति । यद्यहंद्यात्रा विस्तरेण क्रियते तदा श्रीः फलवती।।
वञ्चयित्वा जनानेतान् सुकृतं गृह्यते श्रिया । तत्ततो गृह्यते येन स तु धूर्तधुरन्धरः ॥४९॥ नृपव्यापारपापेभ्यः सुकृतं स्वीकृतं न यैः ।
तान् धूलिधावकेभ्योऽपि मन्ये मूढतरान् नरान् ॥५०॥ इत्यादि विमृश्य तेजःपालेन नित्यभक्तेन साम्मत्यं कृत्वा मलधारिश्रीनरचन्द्रसूरिपादानपृच्छत् । भगवन् या मे चिन्ताऽधुना सा निष्प्रत्यूहं सेत्स्यति । प्रभुभिः शास्त्रकिरीटैरुक्तम्-जिनयात्राचिन्ता
D:\bsnta-p.pm5\2nd proof