________________
परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥]
[१०५ यावत्पठ्यते किमपि तावदसम्भावनयाऽवज्ञापरा यूयं स्थिताः । ततः किं पठ्यते गच्छत, उत्सूरं भवति । मन्त्री प्राह-मम मन्तुः क्षम्यतां, किमेतत् पठितुमारेभे भवद्भिः।आचार्या जगदुः । देव ! यदा युवां बान्धवौ श्रावकश्रेण्यग्रे राजराजेश्वरौ दिव्यभूषणौ, श्रावकाश्च धनाढ्या दृष्टाः, गीताधुच्छ्रयः, तदैतन्नश्चित्ते बभूव । जगति स्त्रीजातिरेव धन्या, यद्भवो जिनचक्र्यर्द्धचक्रि-नल-कर्ण-युधिष्ठिरविक्रम-शातवाहनादयो जाताः । सम्प्रत्यपि ईदृशाः सन्ति, तस्मात् श्रीशाम्ब-श्रीशान्ति-ब्रह्मनागआमदत्त-नागडवंश्यश्रीआभूनन्दिनी श्राविकोत्तमा कुमारदेवी श्लाध्या, यया एतौ कलियुगमहान्धकारे मज्जज्जिनधर्मप्रकाशनप्रदीपौ ईदृशौ नन्दनौ जातौ । इत्येवं चिन्तयतामस्माकं पदपादद्वयं वदनादुद्गतं, जिननमस्कारादि विस्मृतम् । पद्धार्द्धं तु शृणुत
यत्कुक्षिप्रभवा एते वस्तुपाल ! भवादृशाः ॥४१॥ सविस्तरं व्याख्यानं कृतम् । जिह्वाय सचिवेन्द्रः । पदोर्लगित्वा सूरीन् क्षमयित्वा क्रोशान्ते ग्राम एक आगात् । तत्र स्नातभुक्तविलिप्तः स्वं भृत्यं सचिवमेकमाकार्य समादिक्षत् । इयं वाहिनी मे सहस्रदशकबदरकयुक् सूरिभ्यो देया । गतो मन्त्रिसेवकस्तत्र । भाषिताः सूरयः, मन्त्रिदत्तमिदमवधार्यताम् । आचादृष्टम् । अश्वमारुह्य भटशतोल्लासितकृपणजलप्लावितखास्तत्र गताः, यत्र श्रीवस्तुपालः, उदितश्च तैः । मन्त्रिन् ! किमहमुचितभाषी किं चारणः किं बन्दी, किन्तु सर्वसिद्धान्तपारगः सम्यग्जैन: सूरिः । मया मन:प्रमोदेन यद्व उपश्लोकनमुक्तं तन्मूल्यभूतामिमां वो दत्तिं कथं गृह्णामि । न मयेदं वित्तायाभिहितम् , किन्त्विदमन्तर्मानसं ध्यात्वा यथाऽद्यापि जयति जिनपतिमतम् । न गृह्णाम्येव । मन्त्र्यप्याह-भवन्तो निःस्पृहत्वान्न गृह्णीध्वे । वयं तु दत्तत्वान्न प्रतिगृह्णीमः । कथमनेन हेम्ना भवतिव्यमिति शिक्षा दत्त । ततः सूरिर्जगदे जगदेकदानी मन्त्री । मन्त्रिन् ! स्वगृहाय सम्प्रति गम्यते भवद्भिः तीर्थाय कस्मैचिद्वा । मन्त्र्याह, इतो भृगुपुरं श्रीसुव्रततीर्थवन्दनार्थं गच्छन्तः स्मः । आचार्याः प्राहुः तर्हि लब्ध एतद्धेमव्ययोपायः । तत्र लेप्यमयी प्रतिमा आस्ते । तत्र स्नात्रसुखासिका न पूर्यते श्रावकाणाम् । तस्मादनेन राया रीरीहेममयीं स्नात्रप्रतिमा निर्मापयत । मन्त्रिणो ध्वनितं तत् , तथैव च कृतम् । ततः समायातः स्वसदनं गूजरेन्द्रमन्त्री।
अन्येयुरादर्श प्रातर्वदनं पश्यता सचिवेन पलितमेकमालोकि । अपाठि- अधीता न कला काचिन्न च किञ्चित् कृतं तपः ।
दत्तं न किञ्चित् पात्रेभ्यो गतं च मधुरं वयः ॥४२॥ आयुर्जीवितवित्तेषु स्मृतिशेषेषु या मतिः । सैव चेज्जायते पूर्वं न दूरे परमं पदम् ॥४३॥ आरोहन्ती शिरः स्वान्तादौन्नत्यं तनुते जरा । शिरस: स्वान्तमायान्ती दिशते नीचतां पुनः ॥४४॥ लोकः पृच्छति मे वार्ता शरीरे कुशलं तव ।
कुतः कुशलमस्माकमायुर्याति दिने दिने ॥४५॥ ततोऽधिकं जिनधर्मे रमे । अथैकदा द्वावपि भ्रातरौ श्रीवीरधवलं व्यजिज्ञपताम् । देव ! देवपादैरियं गूर्जरधरा साधिता।
D:\bsnta-p.pm5\2nd proof