________________
१०४]
[वसन्तविलासमहाकाव्यम् ॥ श्रीवस्तुपाल ! तव भालतले जिनाज्ञा वाणी मुखे हृदि कृपा करपल्लवे श्रीः । देहे द्युतिविलसतीति रुषेव कीर्तिः पैतामहं सपदि धाम जगाम नाम ॥३५॥ अपरस्तु- अनिःसरन्तीमपि गेहगर्भात् कीर्ति परेषामसतीं वदन्ति ।
स्वैरं भ्रमन्तीमपि वस्तुपाल ! त्वत्कीतिमाहुः कवयः सती तु ॥३६॥ इतरस्तु- सेयं समुद्रवसना तव दानकीर्तिपूरोत्तरीयपिहितावयवा समन्तात् ।
अद्यापि कर्णविकलेति न लक्ष्यते यत्तन्नाद्भुतं सचिवपुङ्गव वस्तुपाल ! ॥३७॥ कश्चित्तु- क्रमेण मन्दीकृतकर्णशक्तिः प्रकाशयन्ती च बलिस्वभावम् ।
कैर्नानुभूता सशिरःप्रकम्पं जरेव दत्तिस्तव वस्तुपाल ! ॥३८॥ तेभ्यः कविभ्यः सहस्रलक्षाणि ददिरे । एवं गायनभट्टादिभ्योऽपि । यावज्जातं प्रातरिव, तदा मल्लवादिभिः स्वसेवकाश्चैत्यद्वारद्वयेऽपि नियुक्ताः । एकं द्वारमन्यदिशि, एकं च मठदिशि । उक्तं च तेभ्यः, मन्त्री चैत्यान्निःसरन् ज्ञापनीयः । क्षणेन वस्तुपालो मठद्वारन्निर्गच्छति, तावता सेवकज्ञापिताः सूरयः संमुखाः स्थिताः । मन्त्रिणा रीढया भ्रूप्रणाम इव कृतः । आचार्यैरभिहितम्
"दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति" विजीयतां, तीर्थानि पूज्यन्ताम् । मन्त्री कौतुकात् तथैव तस्थौ, किं पर्यवसानेयं प्रस्तावनेति ध्यानादूचे च । न विद्मः परमार्थं किमतेदधिधध्वे । आचार्यैरुक्तं पुरो गम्यतां, भवतां कार्याणि भूयांसि । मन्त्री सविशेषं पृच्छति । सूरयो वदन्ति सचिवेन्द्र ! श्रूयताम् । मरुग्रामे क्वचिद् ग्रामारा: स्थूलबहुललोमशाः पशवो वसन्ति पर्षदि निषीदन्ति, कपोलझल्लरी वादयन्ति । तत्रैकदा वेलाकूलीयचर: पान्थ आगमत् । नवीन इति कृत्वा ग्राम्यैराहूतः, पृष्टः, कस्त्वं क्वत्यः । तेनोक्तं समुद्रतटेऽवात्सम् । पान्थः पुरो यामिकैः पृष्टः, समुद्रः केन खानितः । तेनोचे स्वयम्भूः सः पुनस्तैः पृष्टं कियान् सः । पान्थेनोक्तमलब्धपारः । किं तत्रास्ते इति पृष्टे पुनस्तेनाचख्ये
ग्रावाणो मणयो हरिर्जलचरो लक्ष्मी: पयोमानुषी मुक्तौघाः सिकताः प्रवाललतिकाः शेवालमम्भः सुधा ।
तीरे कल्पमहीरुहः किमपरं नाम्नापि रत्नाकरः ॥३९॥ इति पादत्रयं पठित्वा व्याख्याय पुरो गतः पान्थः । तेषु ग्राम्येष्वेकः सकौतुकः पृच्छम्पृच्छं समुद्रतटमगात् । दृष्टः कल्लोलमालाचुम्बितगगनाग्रः समुद्रः । तुष्टः सः, अचिन्तयच्च ऋद्धयः सर्वा लप्स्यन्ते, प्रथमं तृषितः सलिलं पिबामि । तद्दग्धः कोष्ठः । ततः पठति
वरि वियरो जहिं जणु पियइ घुट्टग्घुटु चुलुएहिं ।
सायरि अस्थि बहु य जल छि खारउं किं तेण ॥४०॥ तैरेव पादैनष्टः स्वास्पदं गतः । तथा वयमपि स्मः । मन्त्रिणोक्तं कथं तथा यूयं, यथा स ग्राम्यः । सूरयस्तारमूचुः । महामात्य ! वयमिह पार्श्वनाथसेवका: त्रैविद्यविद्याविदः सर्वर्द्धयः शृणुमः, यथा धवलक्कके श्रीवस्तुपालो मन्त्री सरस्वतीकण्ठाभरणो भारतीप्रतिपन्नपुत्रो विद्वज्जनमधुकरसहकारः सारासारविचारविदास्ते । तदुत्कण्ठितास्तत्रागन्तुमीश्वरत्वाच्च न गच्छामः । क्वापि कदाचिदत्र तीर्थमित्येताऽत्र मन्त्री। तस्य पुरो वक्ष्यामः स्वैरं सूक्तानि इति ध्यायतामस्माकं मन्त्रिमिश्रा अप्यागताः ।
D:\bsnta-p.pm5\2nd proof