Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वर्गोपनिषद् तओ इक्कारसवरिसेहिं पभवसूरि गओ तियसभर्वणं । तेविसाए सिज्जंभवो य तत्तो गओ सग्गं ॥३॥
ततोऽप्येकादशवर्षेः प्रभवसूरिः - कात्यायनगोत्रीयस्थविर आर्यप्रभवः, त्रिदशभवनम् - देवलोकं गतः । ततश्च त्रयोविंशतितमे वर्षे शय्यम्भवः - वत्सगोत्रीयस्थविर आर्यशय्यम्भवसूरिः, स्वर्गं गतः ॥३॥ जसभद्दगुरु तत्तो सीसो सिज्जंभवस्स समयन्नू । विहरंतो पत्तो सावत्थिकुट्ठगुज्जाणं ॥४॥
ततोऽपि शय्यंभवस्य शिष्यः समयज्ञः - सम्पूर्णद्वादशाङ्गीसिद्धान्तवेत्ता, यशोभद्रगुरुः - तुङ्गीकायनगोत्रीयस्थविर आर्यश्रीयशोभद्रसूरिः, विहरन् - भगवदभिहितविधिना संयमचर्यामनुपालयन्, श्रावस्त्या नगर्याः सत्कं कोष्ठकं नामोद्यानं प्राप्तः, ॥४॥ तत्र च - सिरिभद्दबाहुसंभूईविजयसीसा दुवालसंगधरा । पासट्ठिया य निच्चं कुणंति सुस्सूसणं गुरुणो ॥५॥
द्वादशांगधरौ श्रीभद्रबाहुसम्भूतिविजयनामानौ शिष्यौ नित्यं च - अनिशमपि, पार्शस्थिताः ।
१. च - एक्का० । २. च - वनं । ३. क - समयविओ ।

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112