Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वर्गोपनिषद्
२७ भावशौचं च । अत्र लिङ्गव्यत्ययः प्राकृतत्वात् । द्रव्यत उदकमृत्तिकाभ्यां च भावतो दर्भेश्च मन्त्रैश्च । यदस्माकं किमप्यशुचि भवति, तत् सर्वं मृत्तिकाभिलिप्यते, अस्माकमपावित्र्यं मृत्तिकादीषु सङ्क्रमतीत्याशयः ।।
ततश्च शुभोदकेन - तीर्थादिपवित्रजलेन, शरीरं प्रक्षाल्यते, ततोऽनन्तरं सोऽशुचिरात्मा शुचिर्भवति । एवं खलु सत्त्वा जलाभिषेकसक्ताः - अनिशमपि जलशौचैकतत्पराः, परमपदम् - त्रैलोक्येऽपि श्रेष्ठं स्थानं मोक्षमिति यावत्, गच्छन्ति - शौचधर्मानुभावेन प्राप्नुवन्ति ।
तया णं ते दुवीससोवागा कामलयापरिवाइयावुत्ता सोयधम्म सोच्चा हट्टतुट्टा तं धम्म अभिसद्दहमाणा रोयमाणा कामलयापरिवाइयाए तिपाहिणपुव् सोयमूलं धम्म पडिज्जिहंति । पुणोवि कयप्पणामा सएसु गिहेसु पडिगमिस्संति । परिवायगधम्मपरमभत्ता होहिंति ।
तदा ते द्वाविंशतिश्वपाकाः कामलतापरिव्राजिकोक्ताः शौचधर्मं श्रुत्वा हृष्टतुष्टास्तं धर्ममभिश्रद्दधानाः तत्करणे निजाभिलाषवन्त इत्यर्थः, रोचमानाः - अनन्यो - १. क - ०याहण० । २. ख.ग.च.छ - ०वज्जिहं० ।

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112