Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 66
________________ वर्गोपनिषद् २५ नमस्यनार्थम् - नन्तुम्, निजगुरुम् - स्वकीयधर्माचार्यतया प्रतिपन्नं परिव्राजकम्, आपृच्छ्य बहिस्तात् तीर्थाणि नमस्यन्ती अवन्तिदेशस्थितसिप्रासरित्तटेषु अनेकाभिः परिव्राज-काभिः सार्द्ध सम्परिवृता परिहितप्रवरधातुरक्तवस्त्रा - गैरिकोपरञ्जितश्रेष्ठाम्बरपरिधाना, त्रिदण्डकुण्डी-अङ्कुश-अक्षमालापवित्रहस्ता सती भ्रमिष्यति । तए णं सा कामलया परिवाइया सिप्पासरितडेसु समागया जाणित्ता अणेगे अवंतिजणवयमज्झिल्ला सिट्ठिसेणावईमंतिणो बहवे उत्तमा य मज्झिमा य पुरिसा ईत्थीओ य जत्ताए हब्बमागमिस्संति । ततोऽनन्तरं सा कामलता परिव्राजिका सिप्रासरित्तटेषु समागता इति ज्ञात्वाऽनेका अवन्तिजनपदमाध्यिकाः - अवन्तिदेशान्तर्वासिनः श्रेष्ठिसेनापतिमन्त्रिणः, बहव उत्तमाश्च मध्यमाश्च पुरुषाः स्त्रियश्च यात्रायाम्, किलास्यां जङ्गमतीर्थभूतायां वयं पावनीभवाम इत्यभिप्रायेणेत्याशयः हव्वमिति शीघ्रमागमिष्यन्ति । १. क.छ - गयं जा० । २. च - ०वई य मं० । ३. क - मद्धमा।

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112