Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वर्गोपनिषद् मरणमनवकाङ्क्षमाणाः, शीघ्रमेवास्माकं मरणं भूयाद्येनैतस्मावतविशेषान्मुत्कला भवाम इत्यादिकमचिन्तयन्तः, प्रतिपन्नव्रतदाढयसम्पन्ना इति भावः, पञ्चवर्षपरिव्राजकधर्मपरमभावपर्यायं प्राप्य, तदर्शनाभिप्रायत उत्कृष्टचर्या चरित्वेत्यर्थः, एतेन तेषां निबिडमिथ्यात्वध्वान्ततिमिरितत्वमभिहितम्, आयुःक्षये सति तत्रैवावन्तिदेशे चतुस्त्रिंशत्तमे भवे भण्डककुलेषूपपत्स्यन्ते, विटसुता भविष्यन्तीत्यर्थः ।
तओ णं ते दुवीसभंडया कमेण बुढिपत्ता भीमा दुट्ठा रुद्दा साहस्सिया वियालचारिणो अणेगसिट्ठि-सेणावई-अमच्च-नरवइणं भंडचिडे विहरमाणा विहरिस्संति । ___ ततस्ते द्वाविंशतिभण्डकाः क्रमेण वृद्धि प्राप्ता भीमाः, भयङ्कराकारत्वात्, रुद्राः, चण्डपरिणामत्वात्, साहसिकाः, कार्याकार्यविमर्शशून्यत्वात्, विकालचारिणः - लोकप्रतिक्रुष्टसमये विचरणशीलाः, लौकिकव्यवहारतोऽपि बाह्यत्वात्, अनेक श्रेष्ठिसेनापत्यमात्यनरपतीनां समक्षं भण्डचेष्टायां विहरमाणाः, विटचेष्टादिभिस्तेषां मनोरञ्जनं कुर्वाणा इत्यर्थः, विहरिष्यन्ति - वय॑न्ते ।
१. क - वुड्डित्ता । २. ख.छ - ०इणा ।

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112