Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 82
________________ ४१ वर्गोपनिषद् जिनप्रतिमोपादेयत्वाङ्गीकारः । तत्तत्सूत्रान्यथाव्याख्या तु पराकृता सयुक्तिपुरस्सरं प्रतिमाशतकादाविति विस्तरार्थिना तत एव विज्ञेयम् । जिनप्रतिमायाः शास्त्र-युक्ति-स्वानुभवैरुपादेयतयाऽऽराध्यतया च सिद्धत्वादेव तद्विरोधिपक्षान्तर्वर्त्तिनोऽपि केचिदात्महितार्थिनस्तत्पर्युपासनापरा दृश्यन्त इत्यलं प्रसङ्गेन । एवं साध्वाद्युत्थापनाऽपि निराकृता ज्ञातव्या, दुप्पसहंतं चरणं - इत्या!पलब्धेः, रत्नत्रयीसाधकमहामुनिगणस्याद्याप्यध्यक्षमीक्ष्यमाणत्वाच्च । अथाग्रेतनवक्तव्यतामतिशयज्ञानेनोपलभ्याहाऽऽर्ययशोभद्रसूरिः तए णं अग्गिदत्ता ! सा कामलया परिवायिया अट्ठहुत्तरि वासाइं गिहवासं किच्चा सोलसवा-साइं परिवायगधम्ममणुरता छऊणवाससयं सब्बाउं पाउणित्ता सत्तअहोरत्तनिरसणठिया कालं किच्चा वाणमंतरस्स सुवच्छस्स दाहिणिंदस्स देसूणपलियद्धाउया सुवच्छानामा देवी उप्पज्जइस्संति । १. छ - ०त्तरिवा० । २. त - दुतेरसवासाइं । ३. ख.ग - चउत्तरवावास० । छ - चउरुत्तंरवास० । ४. ख.ग - सव्वाओयं । २

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112