Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
५०
वर्गचूलिका - निर्वाणदिनादारभ्य एकनवत्यधिकैर्द्विशतवर्जिनप्रतिमास्थापकः सम्प्रतिनृपो भविष्यति, तथा चोक्तम् - राज्ञा गुरुपार्श्वे सम्यक्त्वादिव्रतानि स्वीकृत्य सपादलक्षजिनालयसपादकोटिजिनबिम्ब - षट्त्रिंशत्सहस्रजीर्णोद्धार - पञ्चनवतिसहस्रधातुमयप्रतिमा - नैकशतसहस्रसत्रशालादिधर्मकृत्यानि कृतानि - इति (कल्पवृत्तौ अष्टमक्षणे) ॥३॥ ततो सोलसएहिं नवनवइसंजुएहिं वरिसेहिं । ते दुट्ठा वाणियगा अवमन्नइस्संति सुयमेयं ॥४॥
ततोऽपि नवनवतिसंयुतैः षोडशशतैर्वषैः गतैस्ते दुष्टा वणिज एतत् - प्रत्यक्षमुपलभ्यमानम्, श्रुतम् - द्वादशाङ्गीनिस्यन्दनिभं सिद्धान्तम्, अवमंस्यन्ते ॥४॥ तमि समए अग्गिदत्ता ! संघसुयरासिनक्खत्ते । अडतीसइमो दुट्ठो लग्गिस्सइ धूमकेउगहो ॥५॥
अग्निदत्त । तस्मिन् समये सङ्घश्रुतराशिनक्षत्रेऽष्टात्रिंशत्तमो दुष्टो धूमकेतुग्रहो लगिष्यति, धूमकेतुरष्टाशीतिमहाग्रहाणामन्यतमो महाग्रहः ॥५॥
१. ड - तंमि मए । २. त-संघस्स सुअस्स राशि ।

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112