Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वर्गोपनिषद्
३९ ततोऽनन्तरं ते द्वाविंशतिवणिज उन्मुक्तबालावस्थाः - युवानः, विज्ञातम् - विज्ञानम्, तत् परिणतमात्रं येषु ते - विज्ञातपरिणतमात्राः - परिपक्वविज्ञानाः, उक्तविज्ञानपरिणतिलौकिकैवेत्याह - दुष्टाः, कषायादिकलुषितान्तः करणत्वात्, धृष्टाः, उद्भटसमाचारत्वात्, कुशीलाः, सज्जनवर्मोल्लङ्घनपरत्वात्, परवञ्चकाः - मुग्धातिसन्धानपराः, खलुङ्काः - अविनीतबलीवर्दसङ्काशाः, पूर्वभवमिथ्यात्वभावाज्जिनमार्गप्रत्यनीकाः, देवगुरूणां निन्दनकम् - निन्दा येषां मुखेष्वस्ति ते - देवगुरुनिन्दनकाः तथारूपानों श्रमणानां माहनानां च - श्रावकाणाम्, यत् प्रतिक्रुष्टम् - भगवता निषिद्धम् - तत् कर्तुं शीलं येषां ते - प्रतिक्रुष्टकारिणः, जिनप्रज्ञप्तं तत्त्वमन्यथा प्ररूपयितुं शीलं येषां ते - अन्यथाप्ररूपिणः, उत्सूत्रभाषिण इत्यर्थः, बहूनां नरनारीसहस्त्राणां पुरतो निजकल्पितं कुमार्गमाख्यापयन्तः - सामान्यतः कथयन्तः, प्रज्ञापयन्तः - विशेषेणाभिदधन्तः, प्ररूपयन्तः - कुतर्कैः समर्थयन्तः, जिनप्रतिमानाम् अङ्गानि भञ्जयन्तः - खण्डयन्तः, ता एव हीलयन्तः - शिलामात्रमेतदित्याद्युक्तेय॑क्कुर्वन्तः, खिंसन्तः - यदि प्रस्तरमयसुरभितो दुग्धावाप्तिस्स्यात्तदैतस्याः सकाशादभिमतप्राप्तिर्भवेदित्यादिवचसा तिरस्कुर्वन्तः, निन्दन्तः -

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112